SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Education रे जीव ! निसुणि चंचलसहाव, मिल्देविणु सयल वि बज्झभाव । नवभेयपरिग्गविविहजाल, संसारि अस्थि सहू इंदयाल ॥ ७० ॥ व्याख्या- 'रे जीव !' आत्मन् !, त्वं 'शृणु' आकर्णय, किं तदित्याह 'चञ्चलस्वभावान्' चपलस्वरूपान्, सकलानपि बाह्यभावान् शरीरादीन् तथा 'नवभेदो' नवप्रकारो यः 'परिग्रहो' धनधान्यक्षेत्र वास्तुरूप्यसुवर्णकुप्यद्विपदचतुष्पदरूपस्तस्य यद् 'विविधजालं' अनेकप्रकारसमूहस्तच्च मुक्त्वा परलोके यास्यसीति गम्यते, अतः संसारे यदस्ति धनधान्यादिकं तत्सर्वं 'इन्द्रजालमिव' तन्त्रवलेनाविद्यमानवस्तुप्रकाशनमिव, इन्द्रजालं वस्तुगत्याऽसदित्यर्थः ॥ ७० ॥ पियपुत्तमित्तघरघरणिजाय, इहलोइअ सवि नियसुहसहाय । नवि अत्थि कोइ तुह सरणि मुक्ख !, इक्कल्लु सहसि तिरिनरयदुक्ख ॥ ७१ ॥ व्याख्या–हे ‘मूर्ख !” अज्ञानिन् ! - आत्मन् !, यदर्थं त्वं द्रव्याद्युपार्जने परवञ्चनादिकं कुरुषे तत्सर्वमैहलौकिकं पितापुत्रमित्रगृहगृहिणीनां 'जात' समूहस्तव नरकादौ प्राप्तस्य 'शरणे' निर्भयत्वस्थापने, 'निजशुभसहाय' आत्मकल्याणनिमित्तं न कोऽप्यस्ति, न कोऽपि तत्र त्रातेत्यर्थः, केवलं जन्मान्तरे 'एक एव' एकाक्येव, तिर्यङ्गरकदुःखानि सहित्यसे, ये वर्तमाने काले प्रसिद्धास्ते भूते भविष्यत्यपि भवन्तीति वचनाददुष्टः प्रयोगः ॥ ७१ ॥ कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समयं गोधम ! मा पमायए ॥ ७२ ॥ For Private & Personal Use Only Jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy