________________
वैराग्यशतकम् ।
॥ २० ॥
पाणि 'कृत्वा 'दुःखेन' कष्टेन, अयं 'जीव' आत्मा, यदि यह [[च्छिकं ]च्छया ( ? ) 'मानुषत्वं' मनुजत्वं लभते, न तु सुखेन, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ ६७ ॥
तं तह दुल्लहलंभं, विज्जुलयाचंचलं च मणुअत्तं । धम्मंमि जो विसीयइ, सो काउरिसो न सप्पुरिसो ॥ ६८ ॥
व्याख्या-तन्मनुजत्वं तथा चुलकादि दशोपनयव्यवस्थया 'दुर्लभलाभं' दुर्लभप्राप्तिं तथा विद्युल्लतावच्चञ्चलं च, लब्ध्वेति गम्यते, यो मनुजो 'धमें' जिनप्रणीते, अदृष्टवशात् प्राप्ते 'विषीदति' विषण्णो भवति, धर्मं न सम्यगनुतिष्ठतीत्यर्थः, स 'कापुरुषः ' कुत्सितपुरुषो, न सत्पुरुषः ॥ ६८ ॥
मस्सजम्मे तडिलद्वयंमि, जिणिदधम्मो न कओ य जेणं ।
हे गुणे जह धाणुकरणं, हत्था मलेयवा अवस्स तेणं ॥ ६९ ॥
व्याख्या - मनुष्यजन्मनि संसाराम्भोनिधितटप्राये लब्धे सति येन मनुष्येण, चः पादपूरणार्थे, जिनेन्द्र धर्मोऽहिंसादिरूपो 'न कृतो' नानुचीर्णस्तेन मनुष्येण 'अवश्यं' निश्चितं, मरणावसाने हस्तौ 'मृदितव्यौ' घृष्टव्यौ, "हा ! हा ! मया सत्यां सामग्र्यां धर्मरूपं पाथेयं न जगृहे, अथाहं किं करोमीति", कस्मिन् केनेव ?, यथा 'गुणे' प्रत्यञ्चायां त्रुटिते सति 'रणभूमौ 'धानुष्केण' धनुर्धरेण, हस्तौ मृदितव्यौ भवतस्तथा तेनाऽपि, मृद्नातेर्मल इत्यादेशः ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
गुणविन
यीया
व्याख्या ।
॥ २० ॥
www.jainelibrary.org