________________
वैराग्यशतकम् ।
॥ १७ ॥
Jain Educati
व्याख्या - हे जीव ! अयं 'जीव' आत्मा कर्मैव 'वातो' वायुस्तेन 'हतः' प्रतिहतो, 'अनाथो' अस्वामिको - अनाधारः सन् 'द्रुमस्य' तरोः पुष्पमिव याति परलोकमिति गम्यते, यथा द्रुमस्य पुष्पं वातप्रेरितं सद्यात्यधः पतति, तथा जीवोऽपि किं कृत्वा ?, धनधान्याभरणानि गृहं स्वजनकुटुम्बं च मुक्त्वा, अनुक्तोऽप्यत्र चकारो बोद्धव्यः, प्राकृतत्वाद्विभक्तिलोपश्च ॥ ५६ ॥
वसियं गिरीसु वसियं, दरीसु वसियं समुद्दमज्झम्मि । रुक्खऽग्गेसु य वसियं, संसारे संसरंतेणं ॥ ५७ ॥
व्याख्या- हे आत्मन् ! त्वया 'संसारे' भवे, 'संसरता' इतस्ततः पर्यटता सता कदाचिद् 'गिरिषु' पर्वतेषु 'उषितं' स्थितं, कदाचिद् 'दरीषु' कन्दरेभूषितं, कदाचित्समुद्रमध्ये उषितं, कदाचिद्वृक्षाग्रेषु चोषितं, अनवस्थितत्वाज्जीवस्य ॥ ५७ ॥ किञ्चाऽयमात्मा नटवदपरापररूपैः परावर्तते, ततः कः कुलाभिमानावकाश ? इत्याह
देवो नेरइओ त्तिय, किडपयंगो त्ति माणुसो एसो । रुवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥ ५८ ॥
व्याख्या- 'देवो' विबुधो, नारकः प्रतीत एव, इति शब्दाः सर्वे उपप्रदर्शनार्थाश्च शब्दाः समुच्चयार्थाः स्वगतानेक भेदसूचका वा, तथा 'कीटः' कृम्यादिः, 'पतङ्गः' शलभस्तिर्यगुपलक्षणं चैतन् 'मानुषः' पुमान्, एष जीवः, परावर्तत इति सर्वत्र क्रिया, "रूवरिस "त्ति कमनीयशरीरो 'विरूपो' विशोभः 'सुखं' सातं भजते तच्छीलश्चेति सुखभागी, एवं दुःखभागी ५८ राउ त्ति य दमगोत्ति य, एस सपागोत्ति एस वेयविऊ । सामी दासो पुज्जो, खलो त्ति अधणो धणवइ त्ति ॥५९ ॥
For Private & Personal Use Only
गुणविनयीया
व्याख्या ।
॥ १७ ॥
jainelibrary.org