SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जीअं जलबिन्दुसमं, संपत्तीओ तरंगलोलाओ। सुमिणयसमं च पिम्मं, जं जाणसुतं करेजासु ॥४४॥ व्याख्या-हे आत्मन् ! 'जीवितं' प्राणधारणं 'जलबिन्दुसम' कुशाग्रप्राप्ताम्भोविन्दुवच्चञ्चलं, तथा 'सम्पत्तय' ऋद्धय'स्तरङ्ग'वद्वीचीव'लोला'चपलास्त्वरितमन्यत्र संक्रामन्तीत्यर्थश्च पुनः 'प्रेम' ख़्यादीनां स्नेहः, 'स्वप्नसमं' क्षणदृष्टनष्टमित्यर्थस्तस्माद्यजानीपे तथा कुरुष्वेति, एतावतेषामस्थिरत्वं ज्ञात्वा स्थिरे श्रीजिनधर्मे उद्यम कुर्विति सूचितम् ॥४४॥ रूपकम् ॥ संझरागजलबुब्बुओवमे, जीविए य जलविंदु चंचले। जुवणे य नइवेगसंनिभे, पावजीव ! किमियं न वुज्झसि१४५ ___व्याख्या-सन्ध्यारागश्च जलबुद्धदश्चेति द्वन्द्वस्ताभ्यानुपमा यस्य तस्मिन्नेवंविधे 'जीविते' आयुषि, च शब्दो व्यवहितः सम्बन्धो 'जलबिन्दुचञ्चले च' कुशाग्रादिलग्नतोयलववच्चपले चेत्यर्थः, उपमात्रयाभिधानमतितरलतादर्शनार्थ, 'यौवने तारुण्ये, च शब्दाव्यनिचयादौ च 'नदीवेगसन्निभे' सरिजलतुल्ये सति, हे 'पापजीव !' दुरात्मन् ! किमिदं न बुध्यसे ? पश्यन्नपीति ॥ ४५ ॥ अन्नत्थ सुया अन्नत्थ, गेहिणी परियणो वि अन्नत्थ । भूयबलिब कुटुंब, पक्खित्तं हयकयंतेण ॥ ४६॥ व्याख्या-'अन्यत्र' अन्यस्यां गतौ 'सुताः' पुत्राः, अन्यत्र 'गेहिनी' कलत्रं, 'परिजनोऽपि' परिवारोऽपि अन्यत्र ‘हत-18 कृतान्तेन' निन्द्ययमेन, सुतादिरूपं कुटुम्ब भूतेभ्यो बलिरिव 'प्रक्षिप्तं' इतस्ततः पर्यस्तं, यथा भूतेभ्यो बलिः प्रक्षिप्यते तथेदं कुटुम्बमपि सर्व कृतान्तेन भिन्न भिन्नां गतिं प्रापितमिति ॥ ४६॥ ACCORDCALLSCLOSURE Jain Education anal For Private & Personal use only mininelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy