________________
वैराग्यशतकम्।
गुणविनयीयाव्याख्या।
ह
नादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते [इति प्रत्ययितं ], ततस्तैरप्यवधीरितोऽन्येषामपि यथाऽवसरे ते तद्भण्डनस्वभावतामाचचक्षिरे, ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनाऽवगीतो वामात्रेणाऽपि केनचिदप्य- ननुवय॑मानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति, एवमन्योऽपि जराभिभूतविग्रहस्तृणकुजीकरणेऽप्यसमर्थः सन् कार्यकनिष्ठलोकात्परिभवमामोतीति, आह च-"गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिश्यति रूपमेव इसते वकं च लालायते । वाक्यं नैव करोति वान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुष पुत्रोऽप्यवज्ञायते ॥ १॥” इत्यादि, तदेवं जराऽभिभूतं निजाः परिवदन्ति । असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादान् जनायाऽऽचष्टे, आह च-"सो वा” इत्यादि, वा शब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तान् निजाननेकदोषोद्धट्टनतया परिवदेन्निन्देद्, अथवाऽविद्यमानार्थतया तानसाववज्ञायति परि
भवतीत्यर्थः, येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति, तेऽपि तदुःखापनयनसमर्था न भवन्तीत्याह च-नाऽल8/मित्यादि, 'नाऽलं' न समर्थास्ते पुत्रकलत्रादयस्तवेति प्रत्यक्षभावमुपगतं वृद्धमाह-त्राणाय शरणाय वेति, तत्राऽऽपत्तरण
समर्थ त्राणमुच्यते, यथा महाश्रोतोऽभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लबमासाद्याऽऽपस्तरतीति, शरणं पुनर्यदवष्टम्भानिर्भयैः स्थीयते तदुच्यते, तत्पुनर्दुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति-जराभिभूतस्य न कश्चित्राणाय शरणाय वा, त्वमपि तेषां नाऽलं त्राणाय शरणाय वेति” । तथा रोगाश्च दुःखं, तथा चोक्तं श्रीआचारङ्गे [धूताख्येऽध्ययने प्रथमोद्दे
॥१०॥
१ असेव्यमानः ।
JainEducationinter
For Private & Personal use only
www.jainelibrary.org