________________
Jain Education
कमनीयविग्रहा ? ॥ १ ॥” गोपालवालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्तदा विर्भावनाय कथानकं - कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहस्तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तच्चाऽशेषदुःखितबन्धुजनस्वजन मित्रकलत्र भ्रातृपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतःसन् पुत्रेषु सम्यक् पालनोपचितकलाकुशलेषु समस्तकार्य चिन्ताभारं निचिक्षेप, तेऽपि 'वयमनेनेदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिताः ( कृता )' इति स्मृतोपकाराः सन्तः कुलपुत्रतामवलम्बमानाः स्वतः क्वचित्कार्यव्यासंगात्स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजीजागरत् ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षूणं विहितवत्यस्ततो गच्छत्सु दिवसेषु वर्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरवृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषस्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः, असावपि मन्दप्रति जागरणतया चित्ताभिमानेन विस्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षूणान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, यत उक्त - "अइतजणा न कीर, पुत्तकलत्तेसु भित्तमित्तेसु । दहियं पि महिज्जंतं, चयइ सिणेहं न संदेहो ॥ १ ॥ ततस्ताः सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तुनभिहितवत्यः- क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपह्नुते, यदि भवतामप्यस्माकमुपविस्रम्भस्ततोऽन्येन विश्वसनीयेन निरूपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा एव सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरूक्षित चेतास्तथैव ता अपवदति - नैता मम किञ्चित्सम्यक्कुर्वन्ति, तैस्तु प्रत्ययिकवच
१ न्यूनतारहितम् ।
onal
For Private & Personal Use Only
jainelibrary.org