________________
SAROSACRICALE
अह दुक्खियाई तह भु-क्खियाइँ जह चिंतियाइँ डिभाई।
तह थोवं पिन अप्पा, विचिंतिओ जीव ! किं भणिमो? ॥ २९ ॥ 81 व्याख्या-हे आत्मन् ! त्वया यथा मोहवशगेन 'डिम्भा' बाला अथ 'दुःखिताः' शीतत्राणाद्यभावेन पीडिता वर्तन्ते, तथा 'वुभुक्षिताः' क्षुधिता वर्तन्त इति 'चिन्तिता' अहर्निशं तच्चिन्ताकुलिततया विचारिताः, परं हे जीव ! त्वया 'स्तोकमपि' अल्पमपि 'आत्माऽकृतपुण्यः परलोके कथं भविष्यतीत्येवं न विचिन्तितोऽतस्त्वां 'किं भणामः' किं वच्मः?, योग्यस्यैवोपदेशार्हत्वात् , त्वं च परार्थचिन्तको जातो, न स्वार्थचिन्तक, इत्यतो मूर्खः, "स्वार्थभ्रंशो हि मूर्खते"ति
वचनात् ॥२९॥ है। खणभंगुरं सरीरं, जीवो अण्णो य सासयसरूवो । कम्मवसा संबंधो, निबंधो इत्थ को तुज्झ ? ॥३०॥
व्याख्या-हे आत्मन् ! इदं शरीरं 'क्षणभङ्गर' क्षणविध्वंसि, यत उक्तं श्रीआचारांगे[लोकसाराध्ययने द्वितीयो। शके ] "भेउरधम्म विद्धंसणधम्म अधुवं अणितयं असासयं चयावचइयं विपरिणामधम्म"मित्यादि, एतद्दीका "अपि चैतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाद्युपबृंहितं मृण्मयाऽऽमघटादपि निस्सारतरं सर्वथा सदा विशराविति दर्शयनाह-"भेउरधम्म" मित्यादि, यदि वा पूर्व पश्चादप्येतदौदारिक शरीरं वक्ष्यमाण धर्मस्वभावमित्याह-"भेउरधम्म” मित्यादि, स्वयमेव भिद्यत इति भिदुरः, स धर्मोऽस्य शरीरस्येति भिदुरधर्ममिदमौदारिकं शरीरं सुपोषितमपि वेदनोद-1
TODanceHOP
Jan Education Instmal
For Private &Personal use Only
www.jainelibrary.org