________________
गुणविनयीयाव्याख्या।
वैराग्य
याच्छिउदरचक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा 'विध्वंसनधर्म' पाणिपादाद्यवयवविध्वंसनात्,
तथा अवश्यम्भावसम्भावितं त्रियामान्ते सूर्योदयवद् ध्रुवं, न तथा यत् तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया शतकम्।
कूटस्थ नित्यत्वेन व्यवस्थितं सन्नित्यं, नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शा-8 विश्वतं, ततोऽन्यदशाश्वतं, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयस्तदभावेन तद्विचटना
दपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकं, अत एव विविधः 'परिणामो' अन्यथाभावात्मको 'धर्मः' स्वभावो यस्य तद्विपरिणामधर्म" [इति सिद्ध. सा०प्र० स० मुद्रिते १८७ पत्रे ], यतश्चैवम्भूतमिदं शरीरकं, तथा 'शाश्वतस्वरूपो' अप्रच्युतानुत्पन्नस्वरूपो 'जीव' आत्मा 'अन्यः' शरीराद् भिन्नस्तदपगमे तदनपगमात् , तर्हि परस्परं विभेदे अनयोः शरीरात्मनोः परस्परं सम्बन्धः कथं? इत्याह-'कर्मवशात् कर्मपरतन्त्रतयाऽनयोः 'सम्बन्धः' संयोगः, अतस्तवाऽस्मिन् शरीरे को 'निर्बन्धः' अनुवन्धः-का मूच्छी ?, उक्तं च-"मंसऽट्ठिरुहिरण्हारू-वणद्धकलमलयमेयमज्जासु । पुणमि चम्मकोसे, दुग्गंधे असुइबीभच्छे ॥१॥ संचारिमजंतगलं-तवच्चमुत्तंतसययपुण्णमि । देहे होज्जा ? किं रा-गकारणं असुइहेउम्मि |॥२॥” अतः शरीरेऽनुबन्धं परित्यज्य किश्चिद्धर्मे उद्यम कुर्विति भावः ॥ ३०॥ कह आयं कह चलियं, तुम पि कह आगओ कहं गमिही । अनुन्नं पि न याणह, जीव ! कुटुंबं कओ तुज्झ ? ३१ | व्याख्या-हे जीव !, आत्मन् ! इदं 'कुटुम्ब' मातृपितृभ्रात्रादि कुत आगतं ?, तथा 'कुत्र चलितं' इतो मृत्वा कुत्र
Jain Educatio
n
al
For Private &Personal use Only
Halhiainelibrary.org