SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम्। गुणविनयीयाव्याख्या। ॥७॥ सरकार अन्नो न कुणइ अहियं, हियं पि अप्पा करेइ न हु अन्नो । अप्पकयं सुहदुक्खं, भुंजसि ता कीस दीणमुहो? २७/ ___ व्याख्या-हे प्राणिन् ! 'अहितं' अनिष्टं वधबन्धादिकं अन्यः कोऽपि न कुरुते, यथाऽनेनाऽहं ताडित इत्यादि परकृतं मा चिन्तयेति भावः, तथा 'हितमपि' इष्टमप्यात्मनः सुखकारणकदम्बकं आत्मैव करोति, 'हुर्निश्चये, नैव 'अन्यः' परः करोति, "ता" इति तत, 'आत्मकृतं' आत्मना शुभाशुभकर्मप्रेरितेन 'कृतं' विहितं, सुखदुःखं 'भुनक्षि' अनुभवसि, ततः ६ कस्माद् 'दीनमुखो' विच्छायवदनः ?, यदि परेण किञ्चिदिष्टमनिष्टं वा कृतं स्यात्तदा तव तयोरुपरि रागद्वेषकरणमुचितं दा स्यात् , परं स्वात्मैव सर्व करोतीति, तथा चोक्तं श्रीउत्तराध्ययनेषु २०-"अप्पा नई वेयरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणु, अप्पा मे नंदणं वणं ॥१॥ अप्पा कत्ता विकत्ता य, दुक्खाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपढिओ ॥२॥" ॥२७॥ बहुआरंभविढत्तं, वित्तं विलसंति जीव ! सयणगणा । तजणियपावकम्मं, अणुभवसि पुणो तुमं चेव ॥ २८॥ ___ व्याख्या-हे 'जीव !' आत्मन् !, त्वया 'बहुना आरम्भेण' कृष्यादिरूपेण, "विढत्तं" उपार्जितं 'वित्तं धनं 'स्वजनगणाः पितृमातृभ्रातृपुत्रादयो 'विलसन्ति' अनुभवन्ति-तत्फलभोक्तारो भवन्तीति भावः, तेन आरम्भेण 'जनितं' उत्पा|दितं 'पाप' अशुभप्रकृतिरूपं 'कर्म' ज्ञानावरणीयादि, त्वमेव एककः पुनर्नरकादौ, आर्षवचनत्वाद् "वर्तमानसामीप्ये | वर्तमानवद्वे"ति वचनाद्वा भविष्यति वर्तमाना[देशः], 'अनुभविष्यसि' तत्फलस्वाद लप्स्यसे इत्यर्थः ॥२८॥ Jan Educatio n al For Private & Personal use only Tanlibraryorg
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy