________________
बालाग्रकोटिमात्रेऽपि स्थाने 'बहुशो' बहून् वारान् 'जीवाः' प्राणिनः, 'सुखदुःखपरम्परां' सातासातपरिपाटी, न प्राप्ताः, एतावता जीवाः कर्मवशगाः सर्वत्र कदाचित्सुखं कदाचिदुःखं प्रापुरित्यर्थः ॥ २४ ॥
सवाओ रिद्धीओ, पत्ता सवे वि सयणसंबंधा । संसारे ता विरमसु, तत्तो जइ मुणसि अप्पाणं ॥२५॥ । व्याख्या-हे आत्मन् ! संसारे पर्यटता भवता सर्वा 'ऋद्धयः' सम्पदः, प्राप्ता, अपि शब्दश्चार्थश्च पुनस्त्वया सर्वे स्वजनसम्बन्धा मातापितृभ्रात्रादिभेदभिन्नाः प्राप्ताः, यतो "मातापितृसहस्राणि, पुत्रदारशतानि च । युगे युगे व्यतीतानि, मोहस्तेषु न युज्यते ॥१॥" अयुक्तत्वं च "दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो ?, ये रिपवस्तेषु सुहृदाशा ॥२॥" "ता” इति तस्मात्कारणात् यद्यात्मानं सुखिनं भवन्तं जानासि तदा तदृद्धिस्वजनसम्ब-1 न्धेभ्यो 'विरमस्व' निवर्तस्व, विरतेः सुखकारणत्वादिति ॥२५॥ एगो बंधइ कम्म, एगो वहबंधमरणवसणाई। विसहइ भवंमि भमडइ, एगुचिय कम्मवेलविओ॥ २६॥ । व्याख्या-एक एव' असहाय एव जीवः 'कर्म' ज्ञानावरणीयादि, 'बध्नाति' आत्मना सह संश्लिष्टं करोति, तथा एक एव भवान्तरे 'वध'स्ताडनं, 'बन्धो' रज्वादिना संयमनं, 'मरणं' प्राणच्यवनं, 'व्यसनं' आपत् , ततो वधश्च बन्धश्च हमरणं च व्यसनं च, तानि 'विषहते' अनुभवति, वधबधादिकं नरकादौ प्राप्नोतीत्यर्थः, तथा एक एव कर्मभि"लविओ"
त्ति वञ्चितः-पुण्यकरणाद्विपलब्धः सन् 'भवे' संसारे भ्रमति, वञ्चेबेलवादेशो भवति ॥ २६ ॥
SANSKALCRECAMANACANCIEO
Jan Education
total
For Private &Personal use Only
Mainelibrary.org