________________
Jain Education
व्याख्या - किलेत्यागमो तौ, 'लोके 'योनीनां' जीवोत्पत्तिस्थानानां चतुरशीतिः 'प्रमुखशतसहस्राणि भेदलक्षाणि, विद्यन्ते, 'जीवः' प्राणी, एकैकस्यां च योनावनन्तवारान् समुत्पन्नः ॥ १८ ॥
मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ । बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥ १९ ॥
व्याख्या - 'बहुयोनि निवासिभिश्चतुरशीतिलक्षप्रमाणयोनिवासिभिः 'संसारस्यै' र्भवस्थितैर्मातापितृबन्धुभिरयं लोकः 'पूरितो' भृतः, अमी जन्तवः सर्वेऽपि कदाचिन्मातृत्वेन कदाचित्पितृत्वेन कदाचिद्वन्धुत्वेन जाता इति, न च ते संसांरस्था मात्रादयस्त्राणं भवन्ति, आपत्तरणसमर्थं त्राणमुच्यते, यथा महास्रोतोभिरुह्यमाणः सुकर्णधाराधिष्ठितं प्लव (पोत ) - मासाद्याऽऽपस्तरतीति न च ते शरणं भवन्ति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते, तत्पुनदुर्ग पर्वतः पुरुषो वेति, तथाऽत्र न कश्चिदस्तीति उक्तं च - " जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवचनादन्यत्र तु नास्ति [च] शरणं वचिल्लोके ॥ १ ॥” ॥ १९ ॥
जीवो वाहिविलुत्तो, सफरो इव निजले तडप्फडए । सयलो वि जणो पिच्छर, को सक्को वेयणाविगमे ? ॥ २० ॥
व्याख्या - जीवो 'व्याधिभी' रोगैः 'विलुप्तोऽभिगुतो 'निर्जले' जलरहितप्रदेशे 'शफर इव' मत्स्य इव " तडफडए "त्ति आकुली भवति, तथाविधं रोगैः पीड्यमानं जनं सकलोऽपि जनः 'पश्यति' अवलोकते, परं तस्य 'वेदनायाः' पीडाया, 'विगमे' विनाशे, कः पुरुषः 'शक्तः' समर्थः ?, अपि तु न कोऽपि तत्पीडामपगमयतीत्यर्थः ॥ २० ॥
ronal
For Private & Personal Use Only
ainelibrary.org