________________
___ व्याख्या-हे आत्मन् ! अष्टसंख्यानि कर्माण्येव पाशास्तैः 'बद्धः' संयतोऽयं 'जीवः' प्राणी 'संसारचारके' भवरूपे बन्दि-18 गृहे, 'तिष्ठति' आस्ते, अष्टकर्मपाशेभ्यो 'मुक्को' रहित आत्मा "शिवमन्दिरे' मोक्षसोधे तिष्ठति, यदा आत्मा कर्मरहितो भवति तदैकसमयेन क्षेत्रान्तरमस्पृशन् मोक्षं प्रयातीति ॥ १३ ॥
विहवो सजणसंगो, विसयसुहाई विलासललियाई । नलिणीदलऽग्गघोलिर-जललवपरिचंचलं सवं ॥१४॥ हा व्याख्या-'विभवो' धनं, तथा 'सज्जनानां पितृमातृभ्रातृभार्यादीनां, 'सङ्गः' सम्बन्धः, तथा 'विलासेन' लीलया 'ललितानि' मनोज्ञानि, 'विषयसुखानि' विषयसौख्यानि, एतत्सर्व 'नलिनीदलाने' पद्मिनीपत्रप्रान्ते, "घोलिरो” दोलनशीलो यो 'जललवः' पानीयबिन्दुस्तद्वत् 'परिचञ्चलं' अतिशयेनाऽस्थिरं, यथा नलिनीपत्रप्रान्ते जलबिन्दुः स्तोकं कालमेव तिष्ठति, वायुना शीघ्रमेव पतनात् , तथा विभवादिकं सर्वमप्यस्थिरमित्यर्थः, "घूर्णो घुल-घोल-घुम्म-पहल्लाः [८-४-११७ ]" इति [ हैम प्रा० ] सूत्रेण घूर्णधातो?ल आदेशस्ततः शीलार्थे इरप्रत्ययः ॥१४॥[अथ ] कानपि पूर्व यूनो बलाद्युपेतान् दृष्ट्वा पश्चात्तानेव जरतो गलितशरीरान् वीक्ष्योपदेशमाह
तं कत्थ बलं तं कत्थ, जुव्वणं अंगचंगिमा कत्थ ?। सबमणिचं पिच्छह, दिटुं नहूँ कयंतेण ॥१५॥ व्याख्या-हे प्राणिनः ! 'तद्' इति तारुण्यावस्थायां यद् 'बलं' पराक्रममासीत् , तद्बलं तव कुत्र गतं ?, तथा तद् यौवनं' तारुण्यं कुत्र ?, तथा 'अङ्गचङ्गिमा' शरीरोत्कृष्टता, कुत्र?, तस्मात् 'कृतान्तेन' कालेन, कृत्वा 'दृष्टनष्टं' पूर्व दृष्टं|
Jan Education Instmal
For Private &Personal use Only
www.jainelibrary.org