________________
***ARAS
दीहरफणिंदनाले, महियरकेसर दिसामहदलिल्ले । ओ पियइ कालभमरो, जणमयरंदं पुहविपउमे ॥८॥
व्याख्या-'ओ' इति पश्चात्तापे अव्ययं, काल एव 'भ्रमरो' भृङ्गः, पृथिव्येव पञ, तस्मिन् 'जना' लोका एव 'मकरन्दो' शरसस्तं पिबति, अन्योऽपि भ्रमरः पद्मे मकरन्दं पिवत्येव, तथाऽयं काल एव भृङ्गो भूरूपकमले जनमकरन्दं असत इति S/भावः, यतः-“दुपयं चउप्पयं बहु-पयं च अपयं समिद्धमहणं वा । अणवकए वि कयंतो, हरइ हयासो अपरितंतो ॥१॥" किंभूते पृथिवीप ?, “दीर्घ' आयतं 'फणीन्द्र एव' शेष एव, 'नालं' मृणालं, यस्य तत्तस्मिन् दीर्घफणीन्द्रनाले, इदं च लोकोतया विशेषणं, तथा 'महीधराः' पर्वता एव 'केसराणि' किञ्जल्कानि यत्र तत्तस्मिन् महीधरकेसरे, प्राकृतत्वाद्विभक्तिलोपः, तथा 'दिश एव' आशा एव, 'महान्ति' बृहन्ति, 'दलानि' पत्राणि, यस्मिन् तत्तस्मिन् दिङमहादले, स्वार्थे इल्लप्रत्ययः, "ओ सूचनापश्चात्तापे"[४-२-२०३] इति [हैम]प्राकृतव्याकरणे ॥८॥
छायामिसेण कालो, सयलजियाणं छलं गवसंतो। पासं कहवि न मुंचइ, ता धम्मे उज्जमं कुणह ॥९॥ __ व्याख्या-हे प्राणिनः ! 'छायामिषेण' निजनिजशरीरप्रतिबिम्बदम्भेन, अयं 'कालो' यमः सकलजीवानां 'छलं' रन्ध्र 'गवेषयन्' अवलोकयन् सन् 'पार्श्व' प्राणिसमीपं कथमपि न मुञ्चति' न त्यजति, शरीरिणामियं छाया न भवति किन्तु यम एव रन्ध्र गवेषयति, कदाऽसौ स्खलेत् कदाऽहं गृह्णामीति वाञ्छया, "ता" इति तस्मात् यूयं 'धर्म' जिनप्रणीतेऽहिंसादिरूपे उद्यम कुरुध्वं, यावद्यमेन गृहीता न वर्तध्वे तावत्किञ्चित्पुण्यं विदध्वमिति भावः ॥९॥
A
MISKIS
Jan Educatio
n
al
For Private
Personal use only
anbrary.org