SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । ॥ २ ॥ भावः, 'पलायितव्ये' अस्मात्संसारात् प्रनंष्टव्ये, 'कस्माद्विश्राम्यथ ?" कथमस्मिन् संसारे खेदापनयनं कुरुध्वमिति भावः, कथं ?, यतस्त्रयो जना भवतां 'अनुलग्ना ः' पृष्ठतो लग्नाः - प्रवृत्ताः वर्त्तन्त इति शेषः, ते के ? इत्याह 'रोगश्च' अतीसा रादिः, 'जरा च' वयोहानिः, 'मृत्युश्च' मरणं, एवंविधास्त्रयोऽपि जना अनुलग्ना अतो धर्मे न प्रमादो विधेय इति भावः, अन्योऽपि जागरितव्ये स्थाने न स्वपिति पलायितव्ये च न विश्राम्यतीति छाया [भावा]र्थः, जना इति लोकोक्त्या उक्तं, अन्यथैषामात्मधर्मत्वादिति ॥ ५ ॥ दिवस निसाघडिमालं, आउं सलिलं जियाण घेत्तृणं । चंदाइचबइल्ला, काल रहá भमाडंति ॥ ६॥ व्याख्या- 'चन्द्रादित्यावेव' शशिभास्करावेव, 'बलीवर्दो' वृषभौ, प्राकृतत्वाद्विभक्तिपरिणामो, 'दिवसाश्च निशाश्च' [ दिवसनिशा ], ता एव 'घटिमाला' कुम्भपङ्किस्तया, जीवानां 'आयुः जीवितमेव सलिलं 'गृहीत्वा' आदाय 'कालः' परिवर्तनालक्षणः, स एव अरघट्टस्तं 'भ्रमयतः' परिवर्तयतः, पुनरुच्चैः पुनर्नीचैरित्येवमिति ॥ ६ ॥ सा नत्थि कला तं नत्थि, ओसहं तं नत्थि किं पि विन्नाणं । जेण धरिज्जइ काया, खज्जंती कालसप्पेणं ॥ ७ ॥ व्याख्या-सा नास्ति कला द्वासप्ततेरन्यतरा, तच्च 'औषधं' अगदो नास्ति, तत् किमपि 'विज्ञान' शिल्पं नास्ति, येन कलादिना 'कालो' मृत्युरेव सर्पस्तेन ' खाद्यमानो' भक्ष्यमाणः 'कायो' देहो 'प्रियते' तत्खादनाद्रक्ष्यते ॥ ७ ॥ १ पान्तस्य नोर्णत्वाभावः "मस्जिनशोर्झलि [ ७-१-६० ] इति [ पाणिनीय सूत्रेण ] नुम् । Jain Education International For Private & Personal Use Only गुणविनयीया व्याख्या । ॥२॥ www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy