________________
जं कल्ले कायचं, तं अजं चिय करेह तुरमाणा । बहुविग्धो हु मुहुत्तो, मा अवरण्हं पडिक्खेह ॥ ३ ॥ व्याख्या-हे प्राणिनः! यत् 'कल्ये' आगामिदिने, कर्तव्यं धर्मकरणीयमिति गम्यते, तद्धर्मकरणीयं त्वरमाणाः' विलम्बमकुर्वन्तः सन्तः 'चिय' शब्दस्य एवकारार्थत्वादद्यैव कुरुध्वं, यतो 'हु' निश्चये, 'बहवः' प्रचुरा, 'विघ्ना' अन्तरायाः सन्त्यस्मिन्निति बहुविघ्न एव 'मुहूर्तः' कालविशेषः, अतो मा 'अपराह' सायन्तनसमयं, 'प्रतीक्षध्वं' विलम्बध्वं, "श्रेयांसि बहुविघ्नानी"ति वचनात् पुण्ये कर्मणि प्रवर्तमानानां पुंसां वहवोऽन्तराया उत्तिष्ठन्त्यतो धर्मकर्मविधाने मा विलम्ब कुरु-| ध्वमिति, तथा च वेदेऽप्येवमेवोक्तं "न श्वः श्वः समुपासीत् , को हि मनुष्यस्य श्वो वेदेति" ॥३॥
ही!! संसारसहावं, चरियं नेहाणुरागरत्ता वि । जे पुव्वण्हे दिवा, ते अवरण्हे न दीसंति ॥४॥ | व्याख्या-मकारोऽलाक्षणिकः, संसारस्वभावस्य 'चरितं' आचरणं, संसारस्वभावचरितं दृष्ट्वा 'ही' इति विषादो मम, कथं विषादः ? इत्याह-'स्नेहानुरागेण प्रेमबन्धेन रक्ता अपि, आसतामन्ये, ये स्वजनादयः 'पूर्वाहे' प्रातःकाले, दृष्टास्त एव 'अपराह्ने' सन्ध्यायां न दृश्यन्ते, स्नेहानुरागरक्तानां किल वियोगासंभवात्त एवोक्ताः, परं संसारस्य क्षणदृष्टनष्टत्वात्तेऽपि वियुज्यन्त इति भावः ॥ ४॥ मा सुयह जग्गियो, पलाइयवंमि कीस वीसमह ? । तिणि जणा अणुलग्गा, रोगो अ जरा अ मञ्चू अ॥५॥ व्याख्या-भो लोका ! जागरितव्ये-धर्मकर्मणि कर्तव्ये इति भावः, तत्र ‘मा स्वपिथ' मा शेवं, न प्रमादितव्यमिति
AMOLLUSCLOSURE
Jan Educator
For Private &Personal use Only
HDainelibrary.org