________________
वैराग्यशतकम् ।
॥ १ ॥
न विद्यते, असारत्वे कारणमाह-यतः किम्भूते संसारे ?, व्याधिश्व शरीरमन्दता, वेदना च- मानसं दुःखं, ताभ्यां ' प्रचुरे' बहुले, अस्मिन् संसारे केवलं जन्तूनां व्याधिवेदने एव विद्येते एवं जानन्नपि 'इह' संसारे, 'जीवः' प्राणी, प्राप्तमपि जिनैस्तीर्थकृद्भिः 'देशितं ' उपदिष्टं, 'धर्म' दुर्गतौ पततः प्राणिनो धरतीति धर्मस्तं, 'न करोति' न विधत्ते, कर्मबहुलत्वादिति ॥१॥ अज्जं कलं परं परारिं, पुरिसा चिंतंति अत्थसंपत्तिं । अंजलिगयं व तोयं, गलंतमाउं न पिच्छंति ॥ २ ॥
व्याख्या-अद्यादिपदेषु प्राकृतत्वादनुस्वारः, 'पुरुषाः' मूढा नराः, अद्य दिने 'कल्ये' आगामिदिने, 'परस्मिन्, आगामिवर्षे 'परारिं' परस्मिन् वर्षे (वा) 'अर्थसम्पत्तिं' द्रव्यसम्पदं - अर्थसम्प्राप्तिं वा, 'चिन्तयन्ति' विचारयन्ति, यथाऽद्य दिने द्रव्यसम्पद् भविष्यति कल्ये वा परस्मिन् वा परारिं वा भविष्यति, इत्येवमाशाग्रस्तास्तिष्ठन्ति परं ते 'अञ्जलिगतं' अञ्जलिप्राप्तं, 'तोय मिव' जलमिव, 'गलत्' क्षरत्, आयुः 'न पश्यन्ति' न प्रेक्षन्ते न विचारयन्ति, यथाऽञ्जलिगतं तोयं न कमपि कालं तिष्ठति तथेदमायुरपि क्षणे क्षणे आवीचिंमरणेन श्रीयमाणं कियन्तं कालं स्थास्यतीत्येवं मूढत्वान्न जानन्तीति भावः ॥२॥
१ “ तत्र वीचिविच्छेदस्तदभावादवीचि] [स्तदेव आवीचि ] स्तेन मरणम [आ] वीचिमरणं, तत्पञ्चधा-द्वय १ क्षेत्र २ काल ३ भव ४ भाव ५ भेदात् । तत्र यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृति निजनिजायुः कर्मद लिकानामनुसमयमनुभवनाद् विघटनं तद् द्रव्यावीचिमरणं तच्च नारकादिगतिचातुर्विध्याच्चतुर्विधम् । एवं नरकादिचतुर्गतिविषयक्षेत्र प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्देव । देवादिष्वद्धाकालस्यासम्भवाद् देवाऽऽयुष्ककालादिचतुर्भेदप्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम् । एवं देवादिचतुर्विधभवापेक्षया भवावीचिमरणं चतुर्द्धा । तथा देवादीनां चतुर्विधायुः क्षयलक्षणभावप्राधान्यापेक्षया भावावीचिमरणमपि चतुद्वैवेति” उत्तराध्ययन सर्वार्थसिद्धिवृत्तौ १३५ पत्रे खरतरगच्छ गगनाङ्गणनभोमणयः श्रीकमल संयमोपाध्यायपादाः ।
Jain Education International
For Private & Personal Use Only
गुणविन
यीयाव्याख्या ।
॥ १ ॥
www.jainelibrary.org