________________
श्रीमदभयदेवसूरीश्वराणामुपसम्पन्नसद्गुरुत्वोपसम्पदत्वेन* शिष्याः श्रीमजिनवल्लभसूरिपादाः। पूज्यानां विशेषत इतिवृत्तज्ञीप्सुभिर्विलोक्या, 'अपभ्रंशकाव्यत्रयी भूमिकादय इति ।
* यदुक्तं-"तस्याभयगुरोः पावा-दुपसम्पत्ततोऽभवत् । जिनवल्लभशिष्योऽथ, सर्वसिद्धान्तपारगः ॥४३॥ क्रमशोऽभयसूरीणां, पट्टकन्दरकेसरी । जिनवल्लभसूरीन्द्रो, द्रव्यलिङ्गिगजार्दनः ॥४४॥"
इति खरतरगच्छसुविहितसूरिपरम्पराप्रशस्तौ ।। श्रीमन्तोऽपि च खयं-"लोकार्यकूर्चपुरगच्छमहाधनोत्थ-मुक्ताफलोज्वलजिनेश्वरसूरिशिष्यः। प्राप्तः प्रथां भुवि गणिर्जिनवल्लभोऽत्र, तस्योपसम्पदमवाप्य ततः श्रुतं च ॥१॥"
इति अष्टसप्ततिकायां (चित्रकूटीयमहावीरप्रासादशिलालेखे), अपभ्रंशकाव्यत्रयीप्रस्तावनातः समुद्भुतम् । तथैव "के वा सहरवोऽत्र चारुचरणाः; श्रीसुश्रुता विश्रुताः" इत्येतत्प्रश्नस्योत्तरे "श्रीमदभयदेवाचार्याः" इति जैनश्रेयस्करमण्डलमहेशानाद्वारा मुद्रिते सटीकस्तोत्ररत्नाकरद्वितीयविभागस्थे प्रश्नोत्तरैकषष्टिशतके ग्रन्थे श्रीमदभयदेवसूरीनेव सद्गुरुत्वेनोचुः । यच्चोकं तत्रैव पूर्वपद्ये "ब्रूहि श्रीजिनवल्लभ! स्तुतिपदं; कीदृग्विधाः के सताम् ?" इति प्रश्नस्योत्तरे "महरवो जिनेश्वरसूरयः" इति, तथा अष्टसप्ततिकायां "जिनेश्वरसूरिशिष्यः" इति च, तत्तु नापसम्पन्नोपसम्पदत्वे सद्गुरुत्वं, किन्तु खं गार्हस्थ्यात्समुत्य धर्मयोधं ज्ञानादिगुणोत्कर्ष च सम्प्रापकत्वादुपकारं संस्मरद्भिश्चैत्यवासित्वगुरुत्वमधिकृत्य तेभ्यः सतां स्तुतिपदत्वमुक्तम् । तत्तचितमेव । यतो नाभूवंस्ते पूज्या अद्यकालीनमनुजा इव कृतोपकारिण उपकारस्यास्मर्त्तारः कृतम्राः, किन्तु शिष्टाः, तथैव षडशीतिवृत्तौ वर्णितत्वात् । | तथाहि-"न चायमाचार्यों न शिष्टः" इति श्रीमन्मलयगिरयः, तथा "शिष्टश्चायमाप्याचार्यः" इति श्रीमद्धरिभद्रसूरयो युगमँनिशशाङ्क (११७२)वर्षभाविनः ।
+ "देवसूरि पहु नेमिचंदु बहुगुणिहिं पसिद्धट । उज्जोयणु तह वद्धमाणु, खरतरवर लद्धउ।
Jan Educat
INDEional
For Private & Personal use only
Miainelibrary.org
IRL