________________
सटीक
ग्रन्थपत्रस्योपक्रम:
वैराग्यशतकादि
॥४॥
CRORESCORROSAROKAROCRACK
कवेश्चास्य सत्तासमयादि रचनाकालादयश्चाप्यस्य शतस्य यद्यपि निश्चितं नोपलब्धं, परं"सिक्तः 'श्रीजिनवल्लभ'स्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे'चकार सदनं 'श्रीनेमिनाथ'स्य यः।
श्रेष्ठी 'श्रीधनदेव' इत्यभिधया ख्यातश्च तस्याङ्गजा, 'पद्मानन्दशतं' व्यधत्त सुधियामानन्दसम्पत्तये ॥२॥"
इत्येतद्भन्थोपप्रान्तपद्येन प्रकटितं स्वयमेव कविना सुगुरु श्रीजिनवल्लभसूरि'शान्तोपदेशामृतसिक्तश्रेष्ठि श्रीधनदेवा'ङ्गजत्वं स्वस्य, |'नागपुरे' (नागोर-मरुधरे) श्रीनेमिनाथ'सदनकारकत्वमपि च स्वजनकस्येति ।
'श्रीजिनवल्लभसूरी'णां सत्तासमयः प्रतीत एवेतिहासविदां पट्टावल्यादिना द्वादशशताब्द्या मध्यकालीनो वैक्रमीयः । ततो नायुक्तं स एव समयः 'पद्मानन्द'कवेरपीत्यनुमानकरणम् ।
संशोधनेऽस्य प्रतिद्वयं समासादितं, तत्राद्या तावन्निर्णयसागरमुद्रणालयमुद्रिता काव्यमाला-सप्तमगुच्छकस्था अन्तरन्तयुटितपाठा, द्वितीया पुना राजनगरस्थ डहेले त्याख्याप्रसिद्धभाण्डागारसत्का, नातिप्राचीना नातिशुद्धाऽपि च ।। | चतुर्थ ग्रन्थरत्नं 'लध्वजितशान्तिस्तवन' सटीकमस्ति, विषयोऽस्य मुख्यतया भगवतोरजितशान्त्योः स्तवनात्मको नयादिस्वरूपप्रतिपादनेनोपदेशात्मकोऽपि च ।
मूलस्यास्य स्तवस्य प्रणेतारः 'सङ्घपट्टक-पिण्डविशुद्धि-पौषधविधिप्रकरण-पडशीति-सूक्ष्मार्थविचारसार्द्धशतका'द्यनल्पद ग्रन्थसन्दर्भसंसूत्रणे सूत्रधारायमाणाः सुविहितचक्रचूडामणयः कविवृन्दवृन्दारकाः कूर्चपुरीयचैत्यवासपरित्यागपुरस्सरं नवाङ्गवृत्तिकारक
SACROSCORRECCALCONOM
॥
४॥
Jan Education
a
l
For Private &Personal use Only
X
Finelibrary.org