SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ३-तृतीयं पुना राजनगरस्थ डहेले'त्याख्याप्रसिद्धभाण्डागारसत्कं, नात्यशुद्धं, लेखकनामादिविरहितमप्यनुमानतो नातिप्राचीनं, सततं साहित्योद्धारैकबद्धकक्ष-झवेरी-श्रीमजीवणचन्द साकरचन्दद्वारा सम्प्राप्तम् । ४-चतुर्थं तु छायापुरीयचित्कोशस्थोपाध्याय-श्रीमद्वीरविजयशास्त्रसंग्रहसत्कं, मुनिवर्य श्रीमन्मङ्गलविजयैः प्रेषितं झवेरी-जीवणचन्द साकरचन्दद्वारैव सम्प्राप्तं, नूतनमपि शुद्धप्रायम् । | द्वितीयं ग्रन्थरत्नं "वैराग्यरसायनप्रकरणं" (सच्छायं) मुद्रितमस्ति, रचितं त्वेत लक्ष्मीलाभे"न वरमुनिनेति "रइयं पगरणमेयं, लिच्छिलाहेण वरमुणिणा" इत्येतस्यैव प्रकरणस्यान्तिमार्याऽर्द्धन स्फुटीभवति । | परमेते किंगच्छीयाः ? केषां सुगुरूणां विनीतविनेयाः ? कं विषयं ग्रामपुरादिकं चालचक्रुः खजनुषा ? कतमाब्दं यावत्पावयामासुः दाश्रमणविहारेणेमां भारतावनिम् ? कदा च विरचयाश्चक्रुरेतं प्रकरणरत्नं ? काँस्कान् जग्रन्थुरन्यान् ग्रन्थान् ? इत्याद्यारेकाकदम्बकस्य समाधानमाधातुं नालम्भविष्णुरहं, ताइक्सामग्र्यभावात् । एकैव प्रतिरस्य 'महावीरग्रन्थमाला-धूलिया द्वारा मुद्रिता (सच्छाया) सम्प्राप्ता, तामेव यथावबोधं विशोध्य मुद्रापितमिदम् ।। चतुर्थ पुनर्वैराग्यैकरसोत्कर्षपोषकत्वेन 'वैराग्यशत'मित्यन्वर्थाभिधानं पद्मानन्दकविना स्वाख्यया गुम्फित 'पद्मानन्दशत'मित्यभिधया प्रसिद्ध ग्रन्थरत्नमस्ति । SACARRIANS ARREARSARGAON Jain Education anal मा For Private & Personal use only O ne brary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy