SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ लध्वजि० सविवरणम् ॥ १० ॥ Jain Education In व्याख्या - तौ - अजितशान्ती भवतां - स्याताम् । कीदृशौ भवताम् ?, [इति ] विशेषणे तात्पर्यम् । प्रसन्नौ - प्रसादपरौ । कस्य ?, मे मम तौ प्रसादपरौ भवताम् । यो जिनौ किंविशिष्टौ ?, अनुप्रपन्नौ - अङ्गीकृतवन्तौ । किम् ?, चरणं - चारित्रम् । कीदृक् ?, मुक्तिमार्ग | मुक्तौ - मुक्तिपत्तने मार्ग इव - पन्था इव, मुक्तिमार्ग, चरणमेव हि मुक्तिगमने मार्गः, यदुच्यते" सम्यग्दर्शन - ज्ञान - चारित्राणि मोक्षमार्गः” । [त० १ - १] किं कृत्वा ?, छर्दित्वा - परित्यज्य । किम् ?, सकलपृथ्वीराज्यम् । कीदृशम् ? हरिकरिपरिकीर्णम् । हरयः - के क्वाणवाहीकादिदेशोद्भवा जात्यास्तुरङ्गमाः, करिणो-भद्रजातीय सप्ताङ्गभूप्रतिष्ठितमतङ्गजास्तैः परि-समन्तात् कीर्ण - व्याप्तम् । तथा पुनः किंविशिष्टम् ?, पक्कपादातिपूर्ण । पक्काः - रिपुनिग्रहसमर्थाः पदातयः - पत्तयस्तैः पूर्ण-युक्तम् । कदाचिद्राज्यमपि पराभवपात्रं विडम्बना ( कारकं ) पात्रं ब्रह्मदत्तचक्रिण इव भवति, तदा परित्यागोचितं भवतीत्याशङ्कयाह - आज्ञायां - आदेशे सज्जं प्रगुणं च तत्, सकलसामन्तैः सुरेन्द्रैरपि योजितकर कमलैः शासनं शिरसि धार्यते इति भावः । किमिव त्यक्तं राज्यं ?, तृणमिव । किंविधम् ?, पटलनम् । यथा पटलग्नं-वस्त्राचलावलम्बितृणमाच्छोट्य त्यज्यते तथा तादृशमपि राज्यं छर्दितमिति भावः ॥ १३ ॥ सम्प्रति रमणीया (मर) रमणी वन्दनीयत्वप्रतिपादनद्वारेण स्तुतिमाहछणससिवयणाहिं फुल्लनीलुप्पलाहिं, थणभरन मिरीहिं मुट्ठिगिज्झोदरीहिं । ( क्षणशशिवदनाभिः फुल्लनेत्रोत्पलाभिः, स्तनभरनम्राभिर्मुष्टिप्राह्योदरीभिः । ) For Private & Personal Use Only भगवतोचारित्रा ङ्गीकार माहात्म्यवर्णनम् ॥ ६० ॥ www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy