SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ASSESSORARE जलियजलणजालालिंगियाणं च झाणं, जणयइ लहु संति संतिनाहाजियाणं ॥१२॥-मालिनी (ज्वलितज्वलनज्वालालिङ्गितानां च ध्यानं, जनयति लघु शान्ति शान्तिनाथाजितयोः ॥ १२ ॥) व्याख्या-शान्तिनाथाजितयोर्ध्यान-संस्मरणं कर्तृ [चिन्तिम् , लघु-शीघ्रम् ] । जनयति-करोति । काम् ? शान्तिशिवम् । केषाम् ?, अर्थाद् ध्यानकर्तृणाम् । कीदृशानाम् ?, अटविनिपतितानाम् । अटव्यां-अरण्ये; सार्थविच्छुट्टनादिकारणेन निपतितानां-संस्थितानाम् । तथा पार्थिवोत्रासितानाम् । पार्थिवैः स्वदेशपरदेशोद्भवैर्नृपतिभिरुत्रासितानां-ता(भा)पितानाम् । तथा जलधिलहरिहियमाणानां, यानभङ्गादिनाऽन्तःपाते सति समुद्रवीचीभिरितस्ततः प्रेर्यमाणानाम् । तथा गुप्तिस्थितानां, गुप्तौ-कारागारे स्थिताना-प्रक्षिप्तानाम् । तथा ज्वलितज्वलनज्वालालिङ्गितानां, ज्वलितो-दीप्यमानश्चासौ ज्वलनो-दावानलादिलक्षणश्च, तस्य ज्वालाः-शिखास्ताभिः आलिङ्गिता-व्याप्तास्तेषाम् । अत्र प्रथमं शान्तिनाथनामोच्चारणं ततोऽजितस्यानुप्रासकारणात् छन्दोभङ्गभयाद् वा ॥ १२॥ अथ साम्राज्यपरित्यागपूर्वकं चारित्राङ्गीकारं भगवतोर्वर्णयन् प्रार्थनामाह हरिकरिपरिकिन्नं पक्कपाइक्कपुन्नं, सयलपुहविरजं छड्डिउं आणसज्जं । (हरिकरिपरिकीर्ण पक्वपादातिपूर्ण, सकलपृथिवीराज्यं छर्दित्वा आज्ञासज्जम् ।) तणमिव पडलग्गं जे जिणा मुत्तिमग्गं, चरणमणुपवन्ना हुतु ते मे पसन्ना ॥१३॥-मालिनी (तृणमिव पटलग्नं यौ जिनौ मुक्तिमार्ग, चरणमनुप्रपन्नौ भवतस्तौ मे प्रसन्नौ ॥ १३ ॥) Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy