SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ लध्वजि० सविवरणम् || 9 || Jain Education कणयनिहसरेहाकंतिचोरं करिज्जा, चिरथिरमिह लच्छि गाढसंथंभियव ॥ ११ ॥ -मालिनी ( कनकनिकषरेखाकान्तिचौरं कुर्यात्, चिरस्थिरमिह लक्ष्मीं गाढसंस्तम्भितामिव ॥ ११ ॥ ) व्याख्या-ययोः श्रीअजितशान्त्योः रूपं कर्तृचिन्तितं - ध्यातं सत् [ इह जगति ] कुर्यात् । काम् १, लक्ष्मीम् । कीदृशीम् ?, चिरस्थिरां । चिरं चिरकालं स्थिरां - निश्चलाम् । कामिव ?, गाढसंस्तम्भितामिव । गाढं - अत्यर्थं संस्तम्भिता - सम्यग् नियन्त्रिता, तामिव । यथा गाढं नाराचादिना पाञ्चालिका चिरं स्थिरा भवति, एवं यद्रूपध्यानाल्लक्ष्मीरित्यर्थः । कीदृशं रूपम् ?, गौरं - अवदातम् । कियन्मानेन गौरमित्याह - कनकनिकषरेखा कान्तिचौरं । कनकस्य - स्वर्णस्य निकषः - कपपट्टस्तत्र | रेखा कनकनिकपरेखा, तस्याः कान्तिर्द्युतिस्तां चोरयति - अनुकरोति यत् तत्तथा । अत्र गौरत्वे उत्प्रेक्षामाह - निचितदुरित| दारूद्दीत ध्यानाग्निज्वालापरिगतमिव । दुरितानि - दुष्कृतानि तान्येव दारूणि - इन्धनानि दुरितदारुणि, ध्यानमेवाग्निःवह्निर्ध्यानाग्निः, निचितानि - अनेकभवशतेषु सञ्चितानि - उपार्जितानि यानि दुरितदारुणि, तैरुद्दीप्तः - उज्ज्वालितो योऽसौ ध्यानाग्निस्तस्य ज्वाला-कीला, तया परिगतं व्याप्तम् । 'इव' शब्दोऽत्रोत्प्रेक्षावचनः ॥ ११ ॥ अथ पुनर्भगवतस्तस्यैव ध्यानस्य फलविशेषद्वारेण स्तुतिमाह— अडविनिवडियाणं पत्थिवुत्तासियाणं, जलहिलहरिहरंताण गुत्तिद्वियाणं । ( अटविनिपतितानां पार्थिवोत्रासितानां, जलधिलहरिहियमाणानां गुप्तिस्थितानाम् । ) For Private & Personal Use Only भगवतोदेहकान्तिमाहात्म्यम् ॥ ५९ ॥ jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy