SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ललियभुयलयाहिं पीणसोणिस्थलीहि, सय सुररमणीहिं वंदिया जेसि पाया ॥१४॥- मालिनी (ललितभुजलताभिः पीनश्रोणिस्थलीभिः, सदा सुररमणीभिः वन्दिताः ययोः पादाः ॥ १४॥) व्याख्या-"हंतु ते मे पसन्ना" इति पूर्ववृत्तस्थं तच्छन्दवाक्यं अत्रापि सम्बध्यते। ययोः श्रीअजितशान्त्योः पादाः-क्रमाः वन्दिताः-प्रणताः। काभिः?, सुररमणीभिः। सुरा-भवनपतिव्यन्तरज्योतिष्कवैमानिकास्तेषां रमण्यः-कामिन्यस्ताभिः। कथम् ?, सदा। कीदृशीभिः?, क्षणशशिवदनाभिः। क्षणः-पूर्णिमारूपं पर्व, तस्य शशी-चन्द्रः, तद्वत् वदनं-मुखं यासां तास्तथोक्तास्ताभिः। तथा फुल्लनेत्रोत्पलाभिः। नेत्राण्येवोत्पलानि-इन्दीवराणि नेत्रोत्पलानि, फुल्लानि-निर्निमेषत्वेन सदा विकस्वराणि नेत्रोत्पलानि-लोचनकमलानि यासां तास्तथोक्ता स्ता]भिः। तथा स्तनभरनमाभिः। स्तनयोः-कुचयोभरःप्राग्भारो; गुरुत्वं, तेन नम्रा-नताङ्गयः, ताभिः। 'नमिरीहिंति "शीलाद्यर्थस्येरः" [८-२-१४५ है।] अनेन शीलाद्यर्थस्य इर(?)प्रत्ययस्य इरादेशः। तथा मुष्टिग्राह्योदरीभिः। मुष्टिना ग्राह्यमुदरं यासां तास्तथोक्तास्ताभिः। लक्षणयुक्ता हि स्त्रियः कृशोदरा एव भवन्ति । तथा ललितभुजलताभिः। ललिते-मनोहरे भुजलते-बाहुलते, बाहुवल्यौ यास तास्तथोक्तास्ताभिः। तथा पीनश्रोणिस्थलीभिः। पीना-उपचिता श्रोणिस्थली-कटितटी यासां तास्तथोक्तास्ताभिः। लता-स्थलीशब्दौ शोभावचनौ॥१४॥ __ साम्प्रतं परमपुरुषार्थहेतुसंयमानुष्ठानविघ्नभूतरोगापहारं भगवतः सकाशात् प्रार्थयति अरिसकिडिभकुढग्गंठिकासाइसार-क्खयजरवणलूआसाससोसोदराणि । (अर्श:किटिभकुष्ठप्रन्थिकासातिसार-क्षयज्वरव्रणलूतावासशोषोदराणि ।) चैरा० ११ Jan Education International For Private &Personal use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy