SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये, सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः। धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो, द्वित्रास्ते तु नरा मनस्समरसं येषां सुहृद्वैरिणो ॥२६॥ (शा०) हृदयं सदयं यस्य, भाषितं सत्यभूषितम् । कायः परहितोपायः, कलिः कुर्वीत तस्य किम् ? ॥ २७॥ (अनुष्टुब्वृत्तम् )| नास्त्यसद्भाषितं यस्य, नास्ति भङ्गो रणाङ्गणात् । नास्तीति याचके नास्ति, तेन रत्नवती क्षितिः ॥ २८ ॥ (अनुष्टुब्वृत्तम् )| आनन्दाय न कस्य मन्मथकथा? कस्य प्रिया न प्रिया?, लक्ष्मीः कस्य न वल्लभा ? मनसि नो कस्याङ्गजः क्रीडति?। ताम्बूलं न सुखाय कस्य ? न मतं कस्यान्नशीतोदकम् , सर्वाशाद्रुमकर्त्तनैकपरशुर्मृत्युन चेत्स्याजनाः! ॥२९॥ (शार्दूल.) भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः, स्वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया, मृत्यु पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ ३०॥ (शार्दूल.) कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं, विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुती । पारम्पर्यसमागतश्च विनयो वामेक्षणायां कृतः, सत्पात्रे किमहं करोमि? विवशः कालेऽद्य नेदीयसि ॥ ३१॥ (शा०) आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो, न क्षान्त्या समलङ्कतः प्रतिकलं सत्येन न प्रीणितः। तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे, देवायैव ददासि जीव! नितरां शापं विमूढोऽसि रे!॥ ३२॥ (शा.) बालो यौवनसम्पदापरिगतः क्षिप्रं क्षितौ लक्ष्यते, वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वापि गतः कृतान्तवशतो न ज्ञायते सर्वथा, पश्यैतद्यदि कौतकं किमपरस्तैरिन्द्रजालैः सखे!॥ ३३॥ (शा०)। REASE Jan Educaton International For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy