________________
पद्मानन्दशतम्
SRAM-A-
MS-CIRCTER.COM
लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं भ्रश्यति, ज्ञानं सङ्कचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् ।
कामरागस्य यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषण-स्तावत्तत्त्वनिरीक्षणात्प्रियतमाऽप्येषा विषौघायते ॥ १९ ॥ (शार्दूल०)
विरूपताकारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता, सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैौवनेऽपि स्फुटं, पृथ्वीयं सकलाऽपि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥२०॥ (शार्दूल.) यत्राम्रोऽपि विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो, दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषन्निषण्णमनसां येषां मनस्सर्वथा, तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् ॥ २१ ॥ (शार्दूलाल स्वाध्यायोत्तमगीतिसङ्गतिजुषः सन्तोषपुष्पाश्चिताः, सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां श्रिताः। तत्त्वार्थप्रतिबोधदीपकलिकाक्षान्त्यङ्गनासङ्गिनो, निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥२२॥ (शार्दूल०) किं? लोलाक्षि! कटाक्षलम्पटतया किं? स्तम्भजृम्भादिभिः, किं? प्रत्यङ्गनिदर्शनोत्सुकतया किं? प्रोल्लसच्चाटुभिः। आत्मानं प्रतिवाधसे त्वमधुना व्यर्थ मदर्थ यतः, शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः॥२३॥ (शार्दूल०) सज्ज्ञानदर्शनशाली, दर्शनशाखश्च येन वृत्ततरुः। श्रद्धाजलेन सिक्को, मुक्तिफलं तस्य स ददाति ॥ २४॥ (आर्या) क्रोधाधुग्रचतुष्कषायचरणो व्यामोहहस्तस्सखे!, रागद्वेषनिशातदीर्घदशनो दुर्वारमारोद्धुरः। सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो, नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ २५ ॥ (शार्दूल०) १ (सिद्धान्तस्योपनिषदि-रहस्ये निषण्णं-निविष्टं मनो येषां ते तथा, तेषां) विदुवाम् । २ ("वृत्तं पद्ये चरित्रे त्रि-प्वतीते दृढनिस्तले" इत्यमरः)।
४४॥
Jain Education
a
l
For Private &Personal use Only