SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मन्तमिति' तथा न, "रुह" बीजजन्मनि प्रादुर्भावे च, रोहतीति रुहः, न रुहोऽरुहः, कर्मवीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च-'दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठं । मुक्तः स्वयं कृतभवश्च परार्थशूर-स्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥' तथा न विद्यते सङ्गोऽमूर्तत्वाद्यस्य स तथा, न स्त्री न पुरुषो) न 'अन्यथेति [न] नपुंसकः, “परिणे” इति केवलं सर्वैरात्मप्रदेशैः परिसमन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग् जानातीति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा तथाप्युपमाद्वारेणाऽऽदित्यगतिरिव ज्ञायत एवेति चेत्तन्न, यत आह-"उवमा ण विजए" उपमीयते-सदृशात्परिच्छिद्यते यया सा उपमा-तुल्यता, सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोका|तिगत्वात्तेषां, कुत एतदिति चेदाह-"अरूवी सत्ता” तेषां मुक्तात्मनां या सत्ता साऽरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव, किञ्च "अपयस्स” इत्यादि, न विद्यते पदं-अवस्थाविशेषो यत्य सोऽपदस्तस्य, पद्यते-गम्यते येनाऽर्थस्तत्पदम्-अभिधानं, तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात् , तथाहि-योऽभिधीयते स शब्दरूपरसगन्धस्पर्शान्यतरविशेषेणाऽभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह-"से ण सद्दे” इत्यादि, 'स' मुक्तात्मा न शब्दरूपो न रूपात्मा न गन्धो न रसोन स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते हयेनाऽसौ व्यपदिश्यतेति भावार्थः" [इत्याचाराङ्गवृत्तौ ॥ १०४ ॥ Jan Educatan li m a For Private & Personal use only LRUlainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy