SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ १६ ॥ तिकः प्राग्वत्, खगतिर्गतवांस्ततः । प्राप्तुं तं मन्त्रमम्बु स्वबन्धुमम्बुधिमब्दवत् || २३ || परीक्षार्थी परीक्षार्थमथाष्टाङ्गनिमित्तवित् । भूत्वा भ्रातुः पुरः प्रातर्यातः वाख्यातवानिति ॥ २४ ॥ ज्ञानेन जाने भूजानेऽनुमानेनानुमेयवत् । वासप्रवासतद्दिव्यवस्त्वैश्वर्यार्जनादि ते ।। २५ ।। सङ्केतैश्चामुनाऽऽश्चर्यनिकेतैर्जल्पितैर्नृपः । चमत्कृतः स्मृतभ्रातृवियोगः साश्रुदृग् जगी ॥ २६ ॥ कास्ते कथं भो ! महन्धुः कदा संगंस्यते च मे । सोऽप्याह सुरवत् खैरं, विहरन् स सुखी भृशम् ॥ २७ ॥ सङ्गतिस्तु कथं तेन, सद्यः सम्पद्यतेऽत्र ते । वर्द्धिष्णुविधुनेवांशोदूरदूर विहा रिणा ॥ २८ ॥ यद्वा विद्योद्यमात्सोऽपि, सम्पद्येत सपद्यपि । दैववद्दिव्यशक्तीनां नैव किञ्चिद्गोचरः ॥ २९ ॥ किन्तु भ्रातुः सङ्गतिस्ते, नैव सङ्गतिमङ्गति । कथं ज्येष्ठः कनिष्ठस्य, सोढा सुप्रौढिमीदृशीम् ? ॥३०॥ वाणीमभाणीत्क्षोणीमान, मा भाणीर्भद्र ! भेदकृत् । दित्सयैव हि राज्यस्य, संजिगांसोऽस्मि बन्धुना ॥ ३१ ॥ सोऽपि कोऽपि | निरीहेषु, रेखाभृत्स्नेहलेषु च । शिशोर्मे भोज्यवद्राज्यं यः खस्मिन्याय्यमप्यदात् ॥ ३२॥ स साम्राज्याप्तिसमये, मयाऽशोध्यत सर्वतः । तथाऽपि कापि न प्रापि, पापिनेव निधिर्गतः ॥ ३३ ॥ तत्सङ्गमावधि च्छत्रं, धारये नैव वीजये । अराजवच्चामरे चेत्यग्रहीषमभिग्रहम् ॥ ३४ ॥ तत्काऽपि शक्तिश्चेत्ते तत्, सम्प्रत्येवार्यमानय । सोऽप्याख्यदीक्षवाकर्षविद्यया कर्षयामि तम् ॥ ३५ ॥ वदन्नदः प्रमदभृतिरोभूय रयात् क्वचित् । जयः साक्षादभूदभ्रान्तर्भूतिर्भानुमानिव ॥ ३६ ॥ जयं जयवपुष्मन्तमिवावेक्ष्य व्यसिष्मयीत् । प्रामोमोदीन्मेदिनीमानननंसीच संभ्रमात् ॥ ३७ ॥ ततः स्ववृत्तमुद्गीर्य, कार्यविद्विनिवार्य च । राज्यादानाग्रहं राज्यमन्त्रमस्माज्जयोऽग्रहीत् Jain Education heational sebeser For Private & Personal Use Only सम्यक्त्वा| धिकारे ६ गाथायां जय विजयकथा ॥ १६ ॥ www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy