SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ! ॥ ३८ ॥ रवेरिव विधुः सिद्धखार्थः श्रीविजयाजयः । ततो निर्गत्य स्वगतिर्गतो भोगापुरीं पुनः ॥ ३९ ॥ जजाप च स निष्पापवृत्तिस्तं मन्त्रमादृतः । सप्तमेऽह्नि नृपं नैमित्तिकस्तत्रेत्युवाच च ॥४०॥ बलादालानमुन्मूल्य, पट्टहस्ती पुरीजनान् । मत्तोऽधुना धुनात्युच्चैश्चेन्महावायुवद् द्रुमान् ॥ ४१ ॥ तदा तव ध्रुवं भावि, पञ्चत्वं पञ्चमे - | ऽहनि । परलोकार्थपाथेयं, तद्यथाऽर्हमथाचर ॥ ४२ ॥ ततो वहन्ननुद्वेगसंवेगं सत्त्वन्नृपः । प्रादात्तस्मै तुष्टिदानमिवोच्चैः शुभशंसिने ॥ ४३ ॥ जयाय तनयाभावाद्दत्त्वा राज्यं तदैव सः । सद्गुरोर्व्रतमादत्त, दानादानविदां| वरः || ४४ || अचिराचिरकार्यस्य, चिकीश्चैकाय्यतोऽनिशम् । कायोत्सर्गात् पञ्चमेऽह्नि, प्रापोश्चैः पञ्चमां गतिम् ॥ ४५ ॥ तद्राज्यचिन्तां कृत्वाऽथ जयः प्रति जयापुरीम् । प्रचचालाचलां चक्रे, चमूचत्रैश्चलाचलाम् ॥ ४६ ॥ अभ्यमित्र्यमिवाभ्येतमेतमेतन्नृपश्चरैः । जानन् जामातरं पुर्यामानयद्बहुमानतः ॥ ४७ ॥ स्वपुत्राणां कुपात्रत्वा| तस्मै पात्राय सोऽप्यथ । राज्यमुत्सृज्य प्रब्रज्य, शिवसाम्राज्यभागभूत् ॥ ४८ ॥ प्राग्भवप्रेमदुर्मोचतया कामलतां च सः । द्वयोस्तृतीयां कृतवान् राज्ञीं राज्ञो न किं भवेत् ? ॥ ४९ ॥ निकृतीनां कृती ढक्का, तां त्वां निर| कासयत् । खदेशतस्तोषरोषी, महतां न हि निष्फलौ ॥ ५० ॥ तत्राप्यसौ राजसूत्रमासूत्र्य खप्रियादियुक् । प्रेम्णाकृष्टो रश्मिनेव, गौरागाद्विजयान्तिके ॥ ५१ ॥ प्रियाभिस्तिसृभिस्ताभिः सुभगेनेव शक्तिभिः । पराक्रमेणेव नयो, जयेन विजयो व्यभात् ॥ ५२ ॥ भ्रात्रे चागतमात्रेण, प्रेम्णाऽमात्रेण तेन ते । ददे मुदोपदा मण्यौषध्या | दिव्यनिधी इव ॥ ५३ ॥ जयन्तीमपि रूप, जयन्ती विजयाह्वया । जयन्तीपुरीशपुत्री, स्वयंवरेऽवृणीत माम् Jain Educationational For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy