SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Sऽनया । नान्यथा स्याद्विधिकृतं, व्याहृतं च महात्मनाम् ॥ ७६॥ कन्याखेदं जनन्यादेः, सादं हादं च दुहृदाम् ।। अस्मै जनप्रवादं चावमन्येमां ददामि तत् ॥ ७७॥ विमृश्येति नृपोऽस्मै तां, यावद्यच्छति तावता। कुर्वन् खगर्व-15 | खर्वत्वं, खर्वस्त्वाख्यादखर्वगीः ॥७८॥ महीन! हीति हीनाङ्गदुर्दशायेदृशाय मे । किं हंसी वायसायेव, ददास्येतां | विदांवर ?॥७९॥ त्वया दत्ताऽपि वा कन्या, कथं मां खीकरिष्यति । कथं वा लोकसांमत्यमत्यन्तानुचितं ह्यदः ॥ ८॥ तदुक्तम्-"यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् । वस्तुविनाशं दृष्ट्वा तथाऽपि परि18| खिद्यते चेतः॥ ८१॥" तदियं दीयमानापि, त्वया नादीयते मया । खोत्तरीयानुसारेण, ननु पादप्रसारणम् ॥ ८२॥ करीरनिम्बादिरतेाक्षावणविदूरगात् । उष्ट्रादपि निकृष्टोऽसौ, खानुरूपं न वेत्ति यः॥८३॥ श्लेष्मादिसंश्लेषजुषश्चन्दनादि विनिर्मुखः (गतेः)।मक्षिकातोऽपि स क्षुद्रः, खानुरूपं न वेत्ति यः॥८॥ आदाने वदने दाने, निदाने सदनेऽदने । आसने शयने यानेऽप्युत्थाने स्थापनेऽर्थने ॥ ८॥ ध्याने विधाने सन्धाने, योधने बोधने धने । हाने मानेऽभिमाने च, समाह्वाने विवाहने ॥८६॥ उत्पाटने विघटने, घटने खेटनेऽटने । पाटने कुट्टने ज्ञाने, विज्ञाने सेवने वने ॥ ८७॥ पठन पाठने गाने, कोपने गोपनेऽसने । एवमादिषु सर्वत्र, यः स्वं वेद विवेद सः ॥८८॥ कलापकं । सहस्त्वेवम्-स्वगृहेऽन्यगृहे वापि, कृत्स्नकृत्येषु कृत्यवित् । स्वप्रतिष्ठाऽर्हताशक्त्याद्यनुरूपं प्रवर्तते ॥ ८९॥ इत्थं तस्मिन्नुत्तमत्वाविसंवादिनि वादिनि । चमच्चरीक्रियन्ते स्म, सर्वेऽप्युर्वीश्वरादयः॥२०॥ गुणानुरागिणः स्वल्पास्तेभ्योऽपि गुणिनस्ततः । गुणिनो गुणरक्ताश्च, तेभ्यः स्वागुणवीक्षिणः॥११॥ स्वास्थरङ्गेऽथ, Jain Education Yolainelibrary.org For Private Personal Use Only fonal ISH
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy