SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रा.प्र.सू. ३ तस्मै तां वर्णकोटीं च यच्छेत् क्ष्माभृदथो जयः । हृष्टस्तच्छ्रवणात् स्पृष्टपटहं क्ष्मापधान्यगात् ॥ १३॥ राज्ञाऽनुज्ञातमात्रश्चामात्र धीर्मन्त्रवादिवत् । शौचावगुण्ठनजापाद्याडम्बरपुरस्सरम् ॥ १४ ॥ महौषधी भाविताम्भइछटाच्छोटनया रयात् । राज्ञः कन्यां पटूचक्रे, किं न दिव्यौषधीवलात् ? ॥ १५ ॥ युग्मम् ॥ लोकोत्तराकृतिकलाऽनुमितैत| त्कुलादिकः । सुविस्मितः प्रमुदितस्तस्मै क्ष्मादयितस्ततः ॥ १३ ॥ स्वकनीमवनीं वीक्षाप्राप्तां नागकनीमिव । ददौकनककोटीं च, नान्यथा भाषितं सताम् ॥ १७ ॥ युग्मम् ॥ महीनेता महोत्साहे, विवाहे विहिते तयोः । यौतके कौतुकेनोच्चैः, सर्वं सौधादिकं ददे ॥ १८ ॥ तत्र तस्थौ सुखं सैष, दोगुन्दुक इवामरः । ध्यायन्नुपायं सन्मत्या, | प्रत्यानेतुं महामणिम् ॥ १९ ॥ अथ च - राजाङ्गजादोषपिष्ट्यै, प्रयुक्तां गुप्तमप्यहो । कञ्चित्कथञ्चिदुबुधे, धूर्त्तात्मा तां महौषधीम् ॥ २०॥ तां जिघृक्षुः कृतक्षत्रवेष एष विशेषतः । जयमावर्जयद्व्याजाद्विनयाद्यैः सुभृत्यवत् ॥२१॥ सैवं विश्वास्य तं गुप्तां गृहान्तस्तां गृहीतवान् । हृष्टहृन्नष्टवांश्च द्राक, धिग् विश्वासमनर्थदम् ॥ २२ ॥ तदुक्तम्"जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दयाम् । बृहस्पतिरविश्वासं, पाञ्चालः स्त्रीषु मार्दवम् ॥ २३ ॥ कन्यादिलाभान्तरितत्वेऽप्यनन्तरिताऽमुना । अमानि हानिः सा प्रायः, सुखं दुःखे निमज्जति ॥ २४ ॥” कन्यादिलाभः को वाऽस्योवशसनोर्महात्मनः । दिव्यद्विवस्तुहानिस्तु, दुःखाकृन्नोचकैः कथम् ? || २५ || दत्ते दैवेन दैवेनापहृते ते तु वस्तुनी । दैवेनैव प्रापणीये, मात्राधिक्यबलादपि ॥ २३ ॥ तत्किं वृथा कथनयाऽन्यस्य दर्शितदैन्यया । इत्यन्तरेव | दधेऽसौ, दुःखमौर्विमिवाम्बुधिः ॥२७॥ इतश्च-अभ्यर्च्य याचितोऽप्युच्चैर्जयं निर्वास्य वेश्यया । सामान्यमणिवन्नैव, For Private & Personal Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy