SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥ ८१॥ जयो विजयराज्यात्या, कृतार्थः प्रस्थितस्ततः। तदानीं नामिलत्तस्य, राज्यसङ्कोचशङ्कया ॥८२॥ महिना तन्मणेः क्षमायां, खे च खेचरलीलया। बम्भ्रम्यति स्म स स्वैरं, कौतुकी किल नालसः॥ ८३ ॥ नाना समानामन्येाः , प्रययौ स जयापुरीम् । हैमहर्म्यसमृद्ध्या या, लङ्काशङ्कामकारयत् ॥८५॥ जैनमल्लस्तत्र भूमान् , | जैत्रदेव्यादयः प्रियाः। पुत्राः शतं जगजैत्रश्रीजैत्रश्रीश्च पुत्रिका ॥ ८५ ॥ साक्षात् कामलता कामलता नाम पणाङ्गना। तत्रास्ति सोऽस्यामासक्तस्तत्सौधे तस्थिवांश्चिरम् ॥ ८६॥ विनोपायं धनोत्पत्तिरीप्सिताऽस्य कथं| न्विति । वत्से! कथश्चित्पृच्छेति, तां लुब्धाऽकाऽन्यदाऽवदत् ॥८७|| सा प्राज्ञा प्राह किं मातः!, तुच्छया पृच्छयाऽनया। किं मण्डकार्थक्लेशेन, मण्डकैर्हि प्रयोजनम् ॥ ८८॥ इत्याधुक्ताऽपि लोभाता, तत्पृच्छार्थकदाग्रहम् । अका कथञ्चिन्नामुश्चद्दुष्टग्रहगृहीतवत् ॥ ८९॥ ततस्तया जयाह्वानः, सोपरोधमपृच्छयत । प्रेमभङ्गभिया सोऽपि, यथास्थितमवोचत ॥ ९॥ न कस्यापि प्रकाश्यं स्याद्गुह्यं स्त्रीणां विशेषतः । तस्यै तथाऽपि स प्रोचे, स्त्रीवशाः किं न कुर्वते ? ॥९१।। मातुः प्ररूपयामाहे (से), तत्स्वरूपं ततस्तया । हृष्टा दुष्टाशया साऽपि, तन्मणिग्रहणा-2 शया ॥९२॥ ततः कपटिनी नीतिकुहिनी कुहिनी रहः । दुग्धं लुब्धा बिडालीवान्वेषीद्विष्वरमहामणिम् ॥९॥ अन्यत्रादर्शनात्तं तत्पाघे संभाव्य दम्भिनी । तं चन्द्रहासमदिरां, दधिदम्भादपाययत् ॥ ९४ ॥ ततो गुप्तांIS शुकग्रन्थेमू लस्यास्य साऽग्रहीत् । तं तत्तुल्योपलं न्यस्य, खातपूरितरीतिवित् ॥९॥क्रमाच सावधानेऽस्मि-18 स्थाने जान ति तं मणिम् । स्थाने विषादस्यातोऽपि, न विषादस्तदाऽजनि ॥९६॥ दिनान्तरे किं तु किश्चि Jan Education For Private Personal Use Only GAJainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy