________________
छेत्तुं न युज्यते । पुत्रौ किं पुनरीदृक्षी, सहक्षौ कल्पवृक्षयोः ? ||२२|| सद्यः कथञ्चिन्निश्चित्य, चेतस्तदेतदेतयोः । कुर्वे नियन्त्रणामात्रमियताऽपि न मे भयम् ||२३|| ध्यात्वेति धाम्नि धात्रीशः, शङ्कमानः कुमारयोः । प्रवेशं वारयामास, ह्यविश्वासः श्रियः पदम् ॥ २४ ॥ अथ श्रीस्थानकास्थानस्थायिनं तायिनं भुवः । तौ नन्तुमागतौ दौवारिकेण द्वारि वारितौ ॥ २५ ॥ इयताऽप्युच्चकैर्दृनौ, मौनेनैव तदैव तौ । पञ्चान्निवृत्तौ कर्तुं च प्रवृत्तौ मन्त्रमित्यथ ॥ २६ ॥ विनाऽपराधाद्यभिघामेव यद्यावयोरपि । राज्ञाऽवज्ञा विधीयेत, तन्न स्थातुमिहोचितम् ॥ २७ ॥ यतः"मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु, जननीक्लेशकारिणः ॥ २८ ॥” तदवश्यं प्रयास्यावः, खैरं देशान्तरं परम् । कः स्यात् परवशे दैववशे जानन् शुभाशुभे ॥ २९ ॥ देशान्तरदिदृक्षाऽपि, पूर्यतामेवमावयोः । भूजा निरपि जानातु, स्वसृन्वोरभिमानिताम् ॥ ३०॥ यतः - " त्रयः स्थानं न मुञ्चन्ति काकाः | कापुरुषा मृगाः । अपमाने त्रयो यान्ति, सिंहाः सत्पुरुषा गजाः ॥ ३१ ॥” किञ्चित्प्रपञ्चितं चैतद्विमातुर्दुर्मतेध्रुवम् । युक्तं चास्या न तु पितुरीदृग् राजाऽथवेष वै ॥ ३२॥ किन्तु निर्दम्भसंरम्भ, उपालम्भः प्रभोरपि । ज्ञाप्यः कोऽपीति तौ युक्त्याऽन्योक्ती लिलिखतुः क्रमात् ॥ ३३ ॥ ते चैते द्वे पद्यत्रयेण - तुलेऽवलेपं बहसे वृथैव, समप्रमाणं निखिलान्नयेऽहम् । गुरुनधस्तादगुरून् यदुच्चान्, करोष्यशेषान् कुदृषत्समव ॥ ३४ ॥ रत्नानि रत्नाकर माऽवमंस्था, महोम्मिभिर्यद्यपि ते बहूनि । हानि स्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाञ्जि ॥ ३५॥ न चैष दोषस्तव किन्तु कस्याप्यन्यस्य यः क्षोभकरस्तवापि । गुणोऽथवाऽयं कथमन्यथाऽस्तु तेषां गुणैः खैर्महिम
Jain Education national
For Private & Personal Use Only
ww.jainelibrary.org