________________
Jain Educatio
यत्वाच उवाच च - "जं न लहइ सम्मत्तं लडूणवि जं न एइ संवेगं । विसयसुहेसु अ रज्जइ सो दोसो रागदोसाणं ॥ १ ॥" इत्यादि, तथा - "रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? । तावेव यदि न स्यातां, तपसा किं | प्रयोजनम् ? ॥ १ ॥ " शेषं 'तं निंदे' इत्यादि प्राग्वदिति चतुर्थगाथार्थः ॥ ४ ॥ अथ दर्शनातिचारं प्रतिक्रामतिआगमणे निग्गमणे ठाणे चंकमणे अणाभोगे । अभिओगे अ निओगे पडिक्कमे देसिअं सवं ॥ ५ ॥
'आगमणे' इति आगमने मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेन आ - समन्ताद्गमने, एवं तदर्थमेव स्वगृहादेर्निर्गमने, तथा 'स्थाने' मिथ्यादृष्टिदेवगृहादावृर्ध्वमवस्थाने, 'चङ्क्रमणे' तत्रैवेतस्ततः परिभ्रमणे उपलक्षण| त्वान्निषदनशयनादौ च यद्धमिति पूर्वगाथातोऽनुवर्त्तते, निषिद्धं च श्राद्धानां कुतीर्थगमनादि, यतः - "वेसागि - | हेसु गमणं जहा विरुद्धं महाकुलवहूणं । जाणाहि तहा सावय ! सुसावगाणं कुतित्थेसु ॥ १ ॥ " आगमनादि च क सति ? - 'अनाभोगे' अनुपयोगे प्रमादवशात्सम्यक्त्वोपयोगाभावे इत्यर्थः, तदुपयोगे सति कुतीर्थगमनादौ वनाचार एव नातिचारः, तथा 'अभियोगे' राजाभियोगादिबलात्कारे, राजाभियोगादयश्च षट्, तत्र राजाभियोगो - राजपारवश्यं १ गणाभियोगः - खजनादिसमुदायवश्यता २ बलाभियोगो - राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं ३ देवाभियोगो- दुष्टदेववशता ४ गुरुनिग्रहो - गुरुबलात्कारः, गुरवश्च मातापितृभर्त्रादयः, यदाह - " माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥” इति ५, वृत्तिका -
ational
For Private & Personal Use Only
GELEGGGGGVZODLI
www.jainelibrary.org