________________
Jain Educatio
'जं बद्धे 'ति 'यर्द्ध' यत्कृतमशुभं कर्म्म प्रस्तावात् ज्ञानातीचारभूतं, कैः ? - 'इन्द्रियैः' श्रोत्रादिभिः पञ्चभिः, कषायैः क्रोधादिभिश्चतुर्भिः उपलक्षणत्वाद् योगैश्च - मनोवाक्कायलक्षणैस्त्रिभिः, नन्विन्द्रियादिभिर्दर्शनाद्यतिचारभूतमपि कर्म बध्यते, अनिवृत्त्यन्नगुणस्थानावधि प्रतिसमयं सर्वजीवानां सप्ताष्टकर्मबन्धकत्वात्, तथा च भगवद्वच:- "जीवे अट्ठविहबंधए वा आउवज्जसत्तविहबंधए वा" इति, ततः किमित्यत्र ज्ञानातिचारभूतमित्येवोक्तम् ?, उच्यते, अत्र सर्वातिचारप्रतिक्रमणे प्रथमं ज्ञानातिचारस्य प्रस्तावायातत्वात् ज्ञानातिचारभूतमिति व्याख्यातं सम्यग्ज्ञानाभावेनैव च जीवः कर्माणि वनाति, यतः सम्यग्ज्ञाने सत्यशुभकर्मकरणमेव न युज्यते, यदुक्तम् - " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ १ ॥ वति वसे नो जस्स इंदियाई कसायवग्गो अ । निच्छयओ अन्नाणी नाणासत्थे सुणंतोवि ॥ २ ॥ " ज्ञानातिचारता चात्र किमेतदीयेन ज्ञानेन यदेवमिन्द्रियैर्जितः कषायैश्च तथा - " नूणं जिणाण धम्मोवि एरिसो देवया गुरुजणोवि । कहमन्नहेरिसो सो न सालिबीआओ वल्लकणो ॥ १ ॥" इत्यादिलोकाप| वादेन ज्ञानाशातनाकारित्वात् इन्द्रियादिभिश्च कीदृशैर्बद्धम् : इत्याह-'अप्रशस्तैः' अशोभनैः, इन्द्रियकपाय| योगा हि प्रशस्ता अप्रशस्ताश्च स्युः, तत्रेन्द्रियेषु श्रवणेन्द्रियं प्रशस्तं देवगुरुगुणगुर्वनुशिष्टिधर्मदेशनाश्रवणादौ शुभाध्यवसायहेतुत्वेन यदुपयुज्यते अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागद्वेषहेतुः स्यात्, चक्षुः प्रशस्तं यद्देवगुरुसङ्घशास्त्रधर्मस्थानावलोकादिना पवित्री स्यात् यच्च कामिन्यङ्गोपाङ्गाव्यालोकने व्याप्रियते तदप्रशस्तं, घ्राणं
"
national
For Private & Personal Use Only
www.jainelibrary.org