SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥५॥ Jain Educationa | एव नेत्याह- 'बहुविधे' निःशुकतयाऽनेकप्रकारे इत्यर्थः, 'कारावणे' अन्यपार्श्वाद्विधापने 'करणे' खयंविधाने चश|ब्दादनुमतावपि, श्रावकेण हि परिमितपरिग्रहारम्भेणैव भाव्यमन्यथाऽधिकलो भाकुलतया बहुजीववधमृषाभाषणादत्तादानादिसम्भवे सर्वव्रतातिचारभावात्, ततो बहुविधे परिग्रहे आरम्भे च करणकारणानुमतिषु यो | मेऽतिचारस्तमिति पूर्वगाथोक्तमनुवर्त्तते, सर्वं सूक्ष्मबादरभेदं, 'देसिअं'ति आर्षत्वाद्वकारलोपे दैवसिकम्, एवं स्वस्वप्रतिक्रमणे रात्रिकं पाक्षिकं चातुर्मासिकं सांवत्सरिकमपि प्रतिक्रमामि - शुभभावेनापुनः करणतया तस्मादतिचारात्प्रातिकूल्येन व्रजामि, तस्मान्निवर्त्तेऽहमित्यर्थः, परिग्रहारम्भाश्च नरकादिमहादुःखहेतवः, तदुक्तं श्रीपञ्चमाङ्गे - "कहन्नं भंते! जीवा नेरइअत्ताए कम्मं पगरंति ?, गोअमा ! महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण "मिति, अन्यत्रापि - "धणसंचओ अ विउलो आरंभपरिग्गहो अ विच्छिण्णो । नेह अवस्सं मणुसं नरगं व तिरिक्खजोणिं वा ॥ १ ॥" अत्र दृष्टान्तो यथा - "सुभूमब्रह्मदत्ताद्याः, सप्तमीं पृथिवीं गताः । महापरिग्रहारम्भैर्मम्मणाद्यास्तु दुःखिनः ॥ १ ॥ महापरिग्रहारम्भपरित्यागेन निर्वृताः । अष्टौ भरतसगरशान्तिकुन्ध्वादिचक्रिणः ॥ २ ॥” इति तृतीयगाथार्थः ॥ ३ ॥ अथ विशेषेणाशेषानप्यतिचारान् प्रतिक्रमितुमिच्छुः पूर्वं ज्ञानातिचारं प्रतिक्रामति जं बद्धमिंदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व तंनिंदे तं च गरिहामि ॥ ४ ॥ tional For Private & Personal Use Only गाथे३-४ ॥ ५ ॥ v.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy