________________
-कित १ निष्कासित २ अजुगुप्सा ३ अमूढदृष्टि ४ उपबृंहण ५ स्थिरीकरण ६ वात्सल्य ७ प्रभावना ८ भेदभिIS न्नेऽष्टविधे, अथवा ज्ञाने दर्शने च ज्ञानदेवगुर्वाद्याशातनाज्ञानदेवगुरुसाधारणद्रव्यविनाशोपेक्षादिना वा, तथा
'चरित्रे' पञ्चसमितिगुप्तित्रयलक्षणेऽष्टभेदेऽनुपयोगरूपः, चशब्दात्संलेखनायां पञ्चधा वक्ष्यमाण इह षड्बाह्यान्तरभेदावादशविधे तपआचारे यथाशक्त्यनाराधनलक्षणे मनोवाकायैस्त्रिविधे वीर्याचारे खशक्तिगोपनरूपश्च योऽतिचारः, एवं चतुर्विशशतातिचारमध्ये यः सूक्ष्मः-अनाभोगादनुपलक्ष्यो बादरो व्यक्तः, वाशब्दावन्यो|ऽन्यापेक्षाओं तं "निन्दामि' हा दुह कय' मित्यादिपश्चात्तापेनात्मसमक्षं तं च 'ग' गुरुसमक्षं । ज्ञानाद्याचारप18/श्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणवृत्तेरवधार्यमिति द्वितीयगाथार्थः ॥२॥ प्रायः समस्तव्रताति| चारा अपि परिग्रहारम्भेभ्यः प्रादुर्भवन्त्यतः सामान्येन तत्प्रतिक्रमणमाहदुविहे परिग्गहमी सावजे बहुविहे अ आरंभे । कारावणे अ करणे पडिक्कमे देसिअं सवं ॥ ३॥ 'दुविहे' इति द्विविधे 'परिग्रहे' सचित्ताचित्तरूपे बाह्याभ्यन्तररूपे वा तत्र बाह्यपरिग्रहो धनधान्यादिः आभ्यन्तरस्तु मिथ्यात्वाविरत्यादिः, तथा 'आरम्भे' कृषिवाणिज्यादिलक्षणे, न तु जिनार्चातीर्थयात्रारथयात्राऽऽडम्बरायुद्देशेन प्रभावनाहेतौ परिग्रहे, चैत्यसङ्घवात्सल्यायुद्देशेन आरम्भे च सत्यपि न तस्य प्रतिक्रमणमित्याह'सावये' स्वकुटुम्बाद्यर्थ सपापे इत्यर्थः, सावद्यमपि कियन्तं परिग्रहं कियन्तमारम्भं च विना गृहिणां निर्वाह
JainEducation
For Private
Personel Use Only
jainelibrary.org