________________
खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होई ॥७॥" 'उद्धावण'त्ति गच्छकार्योत्पत्ती उत्-प्रावल्येन धावना-आत्मानुग्रहवुद्ध्या तत्करणे प्रवृत्तिरित्यर्थः, शीघ्रं च तत्कार्यस्य निष्पादनं। प्रधावनं, शेषं सुगमं, अनेनापि व्याख्यानेन पञ्चपरमेष्ठिनमस्कारः कृतो भवति, एवं पूर्वार्द्धन विनतातोपशान्तये कृतपञ्चनमस्कारमङ्गल उत्तरार्द्धनाभिधेयमभिधत्ते-'इच्छामि अभिलषामि 'प्रतिक्रमितुं निवर्तितुं, कस्मात् ?'श्रावकधर्मातिचारात्' तत्र शृणोतीति श्रावकः, उक्तञ्च-"संपत्तदंसणाई पइदियहं जइजणा सुणेई अ। सामायारिं परमं जो खलु तं सावगं बिति ॥१॥” "श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्य|नारतम् । कृन्तत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः॥१॥” इति निरुक्ताद्वा श्रावकस्तस्य 81 धर्मो-ज्ञानदर्शनादिरूपस्तस्यातिचारो-मालिन्यं तस्मात्, अत्र जातावेकवचनं यथा यवः सम्पन्न इत्यादौ, | पञ्चम्यर्थे च षष्ठी, ततो ज्ञानाचार १ दर्शनाचार २ चारित्राचार ३ तपाचार ४ वीर्याचार ५ पञ्चकस्य चतुर्विशत्यधिकशतसङ्ख्येभ्योऽतीचारेभ्यो निवर्तितुमिच्छामीत्यर्थः, प्रतिक्रमणशब्दोऽत्र निवृत्यर्थः, यतः-"खस्थानाद्यत्परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १॥" तत्र जीवस्य खस्थानं धर्मः। परस्थानमतिचाराः “अइआरा जाणिवा न समायरिअवा" इति वचनात्, प्रतिक्रमणमिथ्यादुष्कृतनिन्दादयश्चैकार्थाः, यदाहु:-"पडिकमणं १ पडिअरणा २ पडिहरणा ३ वारणा ४निअत्ती अ५। निन्दा ६ गरिहा ७ सोही ८ पडिकमणं अट्ठहा होइ ॥१॥” 'पडिअरण'त्ति प्रतिचरणं-ज्ञानाद्यासेवनं प्रतिक्रमणे ईर्यापथप्रतिका
Jain Educatio
n
For Private & Personel Use Only
O
w.jainelibrary.org