SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 'वंदित्तु सचेत्यादिवन्दित्वा'नत्वा सर्वेभ्यो हिता इति 'सर्वाणो वेति णप्रत्यये सार्वाः-तीर्थङ्कराःश्रीऋषभादयः सिद्ध्यन्ति स्म-कृत्लकर्मक्षयात्कृतकृत्या भवन्ति स्मेति सिद्धाः श्रीमरुदेवीपुण्डरीकादयः सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान , तथा 'धर्माचार्यान्' श्रुतधर्मचारित्रधर्माचारसमाचरणप्रवणान् चशब्दादुपाध्यायान्-श्रुताध्यापकान्, तथा 'सर्वसाधून' जिनस्थाविरकल्पिकाद्यनेकभेदभिन्नान् मोक्षमार्गसाधकान् मुनीन् , चशब्दः समुच्चये, वन्दित्वेत्यत्र 'वदुङ स्तुत्यभिवादनयोः' इत्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं-कायेन प्रणतिः स्तुतिश्च वाचा, अनयोश्च मनःपूर्वकत्वात्रिधाऽपि नमस्कारः कृतो भवति, अथवैवं व्याख्या-वन्दित्वा 'सर्वसिद्धान्' तीर्थकरातीर्थकरादिपञ्चदशभेदभिन्नान् , तत्र तीर्थकरसिद्धाः-ऋषभादयः १, अतीर्थकरसिद्धाः पुण्डरीकगौतमादयः २, तीर्थे-जिनप्रवचने तदाधारत्वाच्चतुर्विधसङ्घ वा सति सिद्धास्तीर्थसिद्धाः ३, अतीर्थे-तीर्थाभावे सुविधिप्रभृतीनां तीर्थकृतां सप्तखन्तरेषु धर्मव्यवच्छेदेऽपि सति केचिजातिस्मरणादिना सिद्धा अतीर्थसिद्धा मरुदेव्यादयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् ४, स्वयं-आत्मना वैराग्यहेतुकं बाह्यनिमित्तमन्तरेणैव । जातिस्मरणादिना बुद्धाः सन्तः सिद्धाः खयम्बुद्धसिद्धाः ५, वृषभादिबाह्यनिमित्तेन बुद्धाः सन्तः सिद्धाः प्रत्येकबुद्धसिद्धाः करकण्ड्वादयः ६, बुद्धः-आचार्यादिभिर्वाधिताः सन्तः सिद्धाः बुद्धयोधितसिद्धाः ७, पुंलिङ्ग-18 सिद्धाः ८, प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः९, तीर्थकरप्रत्येकबुद्धवर्जिताः केचिन्नपुंसकलिङ्गसिद्धाः १०, 'खलिङ्गसिद्धाः' स्खलिङ्गे रजोहरणादिरूपे साधुलिङ्गे सिद्धाः स्खलिङ्गसिद्धाः ११, अन्यलिङ्गे चरकपरिव्राजकादि Jain Education anal For Private & Personal Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy