________________
श्राद्धप्रतिसूत्रम्
॥२॥
रजोहरणमुखवस्त्रिकादिग्रहणं, शेषयुक्तिविस्तरस्तु पूज्यश्रीकुलमण्डनसूरिश्रीगुणरत्नमरिपादप्रणीतश्रीसिद्धान्ता
गाथा १ लापकविचारसङ्गहादवगन्तव्यः, तदेवं सामायिककरणाय गृहीतरजोहरणमुखपोतिका सुश्रावकः 'गोअमा! अपडिताए इरिआवहिआए न कप्पड चेव किंचि चिइवंदणसज्झायज्झाणाइअंकाउं' इत्यादिश्रीमहानिशीथवचनात् 'ईर्यापथप्रतिक्रमणमकृत्वा न किश्चिदन्यत्कुर्यात् तदशुद्धतापत्ते रिति हारिभद्रदशवकालिकवृत्ति-11 वचनाच्च पूर्वमीर्यापथिकी प्रतिक्रम्य सम्यग्विधिना गुर्वादिसाक्षिकं सामायिक निर्माय निर्मायतया पशिधावश्यकलक्षणं प्रतिक्रमणं कुर्वाणः “काऊण वामजाणुं हिट्ठा उडुं च दाहिणं जाणुं । सुसं भणंति सम्म” इति यतिदिनचर्यायां, 'तत्र निविष्टस्य विधिभूम्यामेकामूळं व्यवस्थाप्य द्वितीयामुत्क्षिप्य तिष्ठे'दिति श्रीआचाराङ्गपश्चमाध्ययनचतुर्थोद्देशकवृत्तौ च, यथोक्तविधिनोपविश्य मङ्गलार्थ प्रथमं नमस्कारं भणति, ततः समभावस्थितेनैव प्रतिक्रमितव्यमिति ज्ञापनार्थ “करेमि भंते ! सामाइय" मित्यादि, ततश्च सामान्येन देवसिकातिचारप्रतिक्रमणाय "इच्छामि पडिक्कमि जो मे देवसिओ अइआरो" इत्यादि, तदनन्तरं विशेषतो दैवसिकातिचारप्रतिक्रमणार्थ प्रतिक्रमणसूत्रमस्खलितादिगुणोपेतं पठति, तस्य च सर्वातिचारविशोधकत्वेन विशिष्ट श्रेयोमूतत्वादविघ्नेन परिसमात्यर्थ खाभीष्टपञ्चपरमेष्ठिनमस्काररूपं मङ्गलमभिधेयं च सूत्रकृत् प्रथमगाथया प्राह
वंदित्तु सबसिद्ध धम्मायरिए अ सवसाहू ।इच्छामि पडिक्कमिउं सावगधम्माइआरस्स ॥१॥
Jain Education
na
For Private & Personel Use Only
ION.jainelibrary.org