SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रार्द्धप्रति० सूत्रम् ॥ १८७॥ रोऽजनि ॥ ५८ ॥ प्राचीनप्रेमतस्तेन, सत्रा मैत्र्यभवत्तव । प्रीतिद्विषादयः प्रायः, प्राग्भवाभ्यासवासजाः ॥५९॥ निनिन्द मुनिदानं यन्निदानं सोऽखिलश्रियाम् । तेन तस्य भृशं क्लेशेऽप्यासीन्न श्रीः कथञ्चन ॥ ६० ॥ दुःखानि दुःसहान्येवं, प्रत्युत प्राप्तवांश्च सः । नामापि शर्मणां कुत्र, पूर्वं ह्यकृतधर्मणाम् ? ॥ ६१ ॥ निन्दाऽन्यदपि निर्दिश्य, निषिद्धाऽनेककुः खकृत् । अनन्तदुःखकृत्प्रोच्चैर्धर्ममुद्दिश्य किं पुनः १ ||६२ || द्वेषकानेष दिद्वेष, यद्धर्मे प्राग्भवे ततः । द्वेष्योऽभूदत्र सर्वेषां फलं बीजानुसारि यत् ॥ ६३ ॥ प्राग्दुष्कर्ममहावात्यावर्त्तनाद्यापि पोतवत् । वीतपारं स संसारपारावारं चिरं भ्रमी ॥ ६४ ॥ एवं पूर्वभवं स्वस्य, सुहृदश्च निशम्य सः । सुबुद्धिः प्रतिबुद्धात्मा, धर्म एव धियं ददौ ॥ ६५ ॥ ततः सर्वा स सौवर्णैः खर्णाद्रिभिरिवापरैः । अलञ्चक्रेऽर्हद्विहारैस्तारैरिव दिवं भुवम् || ६६ || दुःस्या अवस्था दुःस्थानामृणार्त्तानामृणानि च । आकाश कुसुमौपम्यं, दानिना तेन निन्यिरे ॥ ६७ ॥ मात्रातीतास्तीर्थयात्रा, विधाय विधिना पुनः । सङ्घाधिपत्यमत्यन्तदुर्लभं लभते स्म सः ॥ ६८ ॥ सप्तक्षेत्र्यां सौववित्तं, वापं वापमपापधीः । साफल्यं सम्पदोऽवाप, धर्मिकौटुम्बिकाग्रणीः ॥ ६९ ॥ आराध्यैवं गृहिधर्म, | सुचिरं शुचिरङ्गभाग । समये समयज्ञोऽसौ, यतिधर्ममुपाददे ॥ ७० ॥ तमप्याराध्य दुःसाधं, निराबाधं विषय | सः । गतवानच्युतखर्ग, च्युतश्च शिवमीयिवान् ॥ ७१ ॥ वृत्तं निशम्येति वयस्ययोर्डयोः, शुभाशुभोत्कृष्टफलासिगर्भितम् | भो भाववन्तोऽतिथिसंविभागसते यतध्वं यदि वः शिवस्पृहा ॥ ३७२ ॥ ॥ इति द्वादशवते गुणाकरगुणधराख्यानम् ॥ Jain Educationtional For Private & Personal Use Only exte ३० गाथा यामतिथिसं०गु णाकरगु णधरवृत्तं ३४२-३७२ ॥ १८७॥ w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy