________________
यिवान् । प्रेक्षाञ्चके परिव्राजा, विभ्राजा दम्भविभ्रमैः॥१८॥ पृष्ट्वा ज्ञात्वा च तद्वृत्तं, तेनेत्यूचे स साञ्जसम् ।। व्यपनेष्यामि ते दुःखं, मा विषीद वसीद च ॥ १९॥ सुलहीमहीरुहं रक्तक्षीरं नीरन्ध्रमादरात् । काप्यन्वेषय येनाशु, दारियं द्रावयामि ते ॥२०॥ महोत्साहेन तेनापि, काप्यन्वेषयता सता । सोऽप्यापि कल्पद्रुरिवोपक्रमात्किं न वाप्यते? ॥ २१॥ व्यज्ञापि च परिवाजे, तेन सोऽप्यथ हृष्टहृत् । सिद्धिकृत्सिद्धियोगाहि, तेनामा तत्पदं ययौ ॥ २२॥ ततोऽभिमन्य तं पूर्वसहीतौषधीयुतम् । चारुदारुगणैर्विश्वक, परिव्राट् पर्यवेष्टत | ॥ २३ ॥ कपटैकपटुस्तत्र, ज्वालयामास चानलम् । शिखाबन्धमिषात्तं चाजुहाव निजसन्निधौ ॥ २४ ॥ उपेत्य नीचैर्भूतं तं, ततः स सवलश्छली। केशपाशे दृढं मूर्तीि,धृतवानिव तस्करम् ।।२५॥ ऊर्द्धमुत्क्षिप्य च क्षिप्रं,8
पापात्मा तं हुताशने । आहुतीकुरुते यावच्छागं यज्वेव निघृणः॥२६॥ मार्ये नूनमनार्येणेत्युद्यद्वीयः प्रसह्य सः। RI दुष्कर्मणः खमात्मैव, तावत्तस्मादमूमुचत्॥२७॥युग्मम् । ततस्तो क्रोधविधुरौ, योधाविव सुदुर्धरौ। प्रक्षेसुमन्तर्दहनं,
डढौकाते परस्परम् ॥ २८ ॥ दुःसहं कलहं वीक्ष्य, तं तयोः प्रेतयोरिव । पूच्चक्रुरुच्चकैर्गोपा, भयोद्धान्ततया रयात् ॥ २९॥ शुश्राव दुःश्रवं तच्च, तत्रासनमहापुरात् । मृगयामागतःक्ष्माभृत्कुमारः स्फारविक्रमः ॥ ३० ॥ तेज:सारः स सान्वाभिधानः सधनु शरः। दूतं तत्राययौ बुम्बा, क्षमन्ते क्षत्रियाः कथम् ? ॥ ३१ ॥ परिव्राजक| पाशस्य, दुराशस्य दुरात्मताम् । श्रुत्वा गुणधरेणोक्तां, तस्मै चुक्रोध सोऽधिकम् ॥ ३२॥ वह्नाविन्धनसाचक्रे, झटित्युत्पाव्य तं च सः। दुष्टशिक्षा शिष्टरक्षा, रीतिनीतिविदां खलु ॥३३॥ स चाग्निदग्धः समभूद्दिव्यः सौव
Jain Education A
nal
For Private & Personel Use Only
INinjainelibrary.org