SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ साद्य मुमुदेतमाम् ॥६५॥ अश्रद्धानत्वसम्बद्धतया गुणधरस्य सा । प्रत्यभात्पित्ततिक्तास्यस्येव तिक्ततया सिता ॥६६॥ एकमेव मुनेर्वाक्यं, तयोः पात्रकुपात्रयोः । पीयूषविषतां प्राप, परिणत्याऽन्दवारिवत् ॥६७॥ उक्तं च-“सा साई तंपि जलं पत्तविसेसेण अंतरं गरु । अहिमुहि पडिअंगरलं सिप्पउडे मुत्तियं होइ॥६॥" आद्यस्तदादि दानादौ, प्रावर्त्तत विशेषतः । सतां हि शिष्टैरादिष्टं, वटवीजायते हृदि ॥ ६९॥ मतिः प्रसरति स्मास्य, दानादिषु यथा यथा । पुरान्तरे कीर्तिरपि, स्पर्द्धयेव तथा तथा ॥ ७० ॥ परस्तु परवन्मित्रेऽप्युद्गच्छत्परमत्सरः। चिन्तया चिन्तयामास, तुच्छया तुच्छधीरिति ॥७॥ वित्तक्रीतीव जनता, समग्राऽपि गृणात्यहो । गुणान् गुणाकरस्यैव, भाग्यसौभाग्यमुख्यकान् ॥७२॥न पुनः कश्चन भ्रान्त्याऽप्यधिकस्यापि मे गुणैः। |लोकः प्रवाहपतितः, प्रायस्तत्त्वबहिर्मुखः॥७३॥सहचारेण चैतस्य, लाभः को मम प्रत्युत ? । महत्त्वहानिहींनं हि, प्राहुः प्रायः परानुगम् ॥ ७४॥ परानुगामी परवऋदी, परान्नभोजी परचित्तरञ्जी। परप्रवादी परवित्तजीवी, सर्वेऽप्यमी स्युर्गुणिनोऽपि निन्द्याः॥७॥ तदेनमत्र मुक्त्वाऽऽशु, गत्वा देशान्तरे पराः। श्रियोऽर्जयित्वा खां भाग्यवत्तां कीर्ति च दर्शये ॥ ७६ ॥ एतस्मिंश्च सहायाते, ह्येतदीयक्रयाणकैः । लामो भूयान भावी मे, समय। बहु वस्तु हि ॥७७॥ मां विनैष च न कापि, गन्ता प्रकृतिकातरः। यष्टेरिवान्धो ह्याधारान्ममैव विचरत्ययम् | ॥ ७८ ॥ विना देशान्तराप्तिं च, नाप्येषोऽर्जिष्यति श्रियः। तन्महत्त्वं जने भावि, ममैवोच्चैर्धनार्जनात् ॥७९॥ धनानामर्जनेनैव, प्रतिष्ठां प्राप्नुयात् पुमान् । कलाधनार्जनादेव, कलावानपि पूज्यते ॥८॥ ध्यात्वेति सजी Jain Educati onal For Private Personel Use Only Ovw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy