________________
जातु त्याज्यः सुसन्निधिः॥३६॥ यतः-"गुणिनः समीपवर्ती पूज्यो लोके हि गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जनमामोति काणाक्षि ॥ ३७॥" श्रुत्वा सामुद्रिकस्येत्थं, गिरं गुणधरस्तदा । अन्तर्दूनोऽपि मौनेन, स्थितवान् लोकलजया ॥ ३८ ॥ अचिन्तयच्च चित्तान्तरेतस्याशु वचोऽन्यथा । करिष्ये दर्शयिष्ये च, सर्वेषां |ख शुभोदयम् ॥ ३९॥ एवं गर्वोचुरेणाथ, साई गुणधरेण सः । गुणाकरः समुत्तस्थौ, तन्मठादशठाशयः ॥४०॥ क्रीडन्नाक्रीडमाप्तश्च, दृष्ट्वा धर्ममिवाङ्गिनम् । धर्मदेवगुरुं हृष्टः, पृष्टवान्नतिपूर्वकम् ॥४१॥ प्रभो! प्रसीदादिश मे, सद्यः खेष्टश्रियोजना । केनोपायेन जायेतेत्यथो यावद्दुरुर्वदेत् ॥ ४२ ॥ तावत्तुच्छतयौ-18 त्सुक्यधारी गुणधरोऽभ्यधात् । हुं मया व्यवसायादिरुपायः प्राक्तवोदितः ॥४३॥ गुणाकरोऽगृणान्मित्र!, मयाऽपि ज्ञायते ह्यदः । प्रश्नोऽयं तु विशेषार्थ, विशेषज्ञा हि साधवः ॥४४॥ वाचं वाचंयमेन्द्रोऽपि, प्रोचे || भोः! स्थिरचेतसौ । शृणुतं वच्मि वां तत्त्वं, तत्त्ववाचो हि साधवः ॥४५॥ तच्चेदम्-धर्मो धनादेय॑भि-10 चारवन्ध्यो, बीजं फलस्येव हि मुख्यहेतुः । उपक्रमाद्याः सहकारिणोऽम्भःसेकादिवत्ते व्यभिचारिणोऽपि ॥ ४६॥ दृश्यन्ते सुधियोऽपि हि महोद्यमा अप्यमुद्रदारिद्याः । अधियोऽप्यलसा अपि च श्रीपतयः श्रीविलासेन ॥ ४७॥ उक्तश्च-"समाखतुल्यं विषमासु तुल्यं, सतीष्वसच्चाप्यसतीषु सच । फलं क्रियाखित्यथ यन्निमित्तं, तद्देहिनां सोऽस्ति तु कोऽपि धर्मः॥४८॥ तद्धर्म एव यत्नो विधीयतां धीयतां च हृदि सैव । यः सर्वा अपि दत्ते चित्तेप्सितसम्पदः सपदि ॥४९॥ यतः-"धर्माद्धनं धनत एव समस्तकामाः, कामेभ्य एव सकले
in Educat
i onal HAI
For Private & Personal Use Only
%
jainelibrary.org