SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ सकलाः कलाः॥६॥ तपः क्षमागुणेनेव, विवेकेनेव वैभवम् । लावण्यलक्ष्म्येव वपुरादरेणेव भोजनम् ॥७॥ श्रुतं मत्येव भक्त्येव, स्तवः शक्तयेव शान्तता । श्रद्धयेव च धर्मः सोऽलञ्चके यौवनश्रिया ॥८॥ युग्मम् ।। यस्य रूपं निरूप्यातिस्मररूपं सुराङ्गनाः । नराङ्गनात्वमीहन्ते, तद्भवेऽन्यभवेऽपि च ॥९॥ औदार्यमस्य चातुर्यधुयरप्युच्यतां कियत् । यच्छिक्षित्वेव गीर्वाणतर्वाद्या ददतीप्सितम् ॥१०॥ शारदागुरुशुक्राणां, तुर्यश्चातुर्यधुर्यधीः । स एव वर्ण्यतां प्राज्ञैरन्यो वा दश्यतां कचित् ॥११॥ बाल्यादपि ददद्रव्यं, सर्वेभ्योऽपि यथेप्सितम् । सोऽभूल्लोकप्रियःप्रोच्चैः, क न दाताऽब्दवत् प्रियः ॥ १२ ॥ इतश्च-तत्रैव देवपद्मस्य, मित्रं पात्रं गुणश्रियाम् । जज्ञे धनञ्जयः श्रेष्ठी, दोषेन्धनधनञ्जयः ॥१३॥ विश्वेऽप्यवाप्तविजया, जया जायाऽस्य सद्गुणा। तयोर्गुणधरः सूनुर्नाम्नैव न तु तत्त्वतः ॥१४ ॥ स निर्भाग्योऽपि भाग्याख्यंमन्यः पुण्यपराङ्मुखः । सुखी पित्रोः प्रसादेन, प्रपेदे यौवनं क्रमात् ॥ १५॥ गुणाकरस्य निस्तुल्या, बाल्यादप्यमुना समम् । गुरोरङ्गारकेणेव, मैय्यभूत् प्राग्भवोद्भवा ॥१६॥ गुणाकरस्य मित्रत्वान्मान्थः सोऽपि जनेऽजनि । वाहनत्वान्महेशस्य, मत्तः शण्ड इवोचकैः ॥१७॥ महत्त्वं महतां सङ्गादमहानप्यवाप्नुयात् । रजोऽपि पूज्यते तीर्थपृथिवीसङ्गतं न किम् ? ॥ १८॥ तो तुल्यवयसौ तुल्यशृङ्गारौ तुल्यचारिणी । गुणैस्त्वतुल्यौ दधतुस्तुला हंसबकोटयोः॥१९॥ मुदाऽन्यदा भ्रमन्तौ तौ, पुरान्तः खैरचारतः । प्राप्तौ क्वचिन्मठेऽश्रीष्टां, सूक्ते सूक्ते वुधैरिमे ॥ २०॥ जनकार्जिता विभूतिभगिनीति सुनीतिवेदिभिः सद्भिः। सत्पात्र एव योज्या न तु भोग्या 63OHOROP 299SASAE3939202 Jain Education Leona For Private & Personel Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy