________________
नेकाश्चर्यकारकं दिव्यरत्नमेकं पोषधपूरणानन्तरं, एवमाजन्मनिर्वाहितनिष्कलङ्कपोषधाभिग्रहः पुण्यप्रभावादयत्नसिद्धदुर्निग्रहशत्रुनिग्रहः प्राप्तदिव्यरत्नप्रवरः स वनगरमागत्य तेन निःसममहिम्ना मणिनाऽनेकप्रकारान् खपरोपकारानकरोत्, इति भवरोगसदौषधपोषधविधिनाऽवनीधवो व्यधुनात् । निजकर्मरजः प्रबलप्रभञ्जनेनेव निचितमपि ॥१॥ स्तेनं स्तेनजनन्यां श्यामरजन्यां कदाचिदिभ्यगृहे । खात्रं दत्त्वा कोऽप्याददे धनं विनिमयेनेव ॥२॥ निर्गत्य ततो यान्तं मार्गे मृगधूर्त्तवद दुतगतिं तम् । दृष्ट्या पृष्टे व्याधा इव नृपयोधा अधाविषत ॥३॥ सोऽप्यभ्यस्तद्रुततरगतिः प्रणश्यन् विनिर्गतो नगरात् । बहिरुद्याननिकुञ्ज प्रविष्टवांश्चौररीतिरियम् ॥४॥ दस्युभिया तत्रान्तः प्रसृमरतिमिरे प्रवेष्टमसमर्थः। रिपुभिः पुरमिव परितोऽप्यवेष्टि तत्तैः प्रभूततरैः॥५॥% दस्युस्त्रस्यंस्तत्र तु शममिव साक्षादवेक्ष्य मुनिमेकम् । अगृणादभयं शरणागतस्य मे देहि देहिहितम् ॥ ६॥2 ऋषिराख्यद्यदि दीक्षा कक्षीकुरुषे तदैव तव न भयम् । न त्वन्यथा कथचिद्विना न वैराग्यमभयं हि ॥७॥ तदुक्तम्-"भोगे रोगभयं सुखे क्षयभयं वित्ते च भूभृद्भय, माने म्लानिभयं गुणे खलभयं देहे कृतान्ताद्भयम् । शौर्ये शत्रुभयं जये रिपुभयं वंशे कुयोषिद्यं, सर्व नाम भयं भवेदिदमहो! वैराग्यमेवाभयम् ॥८॥" श्रुत्वेति | सदालोचः कृतलोचः शासनाधिदेवतया । दत्तयतिवेष एव प्रावाजीदहह ! जीवगतिः॥९॥ प्रातस्तं प्रत्रजितं ते प्रेक्ष्यारक्षका नृपायाख्यन् । सोऽपि सुधीरतिविस्मितचित्तस्तं नन्तुमागतवान् ॥ १०॥ नत्वा च श्लाधितवान् विभो ! भवानेव सात्विकप्रवरः । अपि दुनयेन येन प्रापि द्राक् त्रिजगदय॑त्वम् ॥ ११॥ एवं पौरजनै
Jain Educat
i onal
For Private & Personal Use Only
Y
w
.jainelibrary.org
16)