________________
श्राद्धप्र
ति० सूत्रम् ॥ १७१ ॥
मा भूवन् भवन्तः सर्वाभीष्टसाधकधर्मनिरपेक्षाः, यतः - "बुच्छिन्ना किं खु जरा नट्ठा रोगा य किं गयं मरणं । थइअं व नरयदारं ? जेण जणो धम्मनिरविक्खो ॥ १ ॥ मा सुअह जग्गअबे पलाइ अमि कीस वीसमह ? | तिन्नि जणा अणुलग्गा रोगो अ जरा य मच्चू अ ॥ २ ॥” तस्माद्यतिधर्माशक्तत्वे श्राद्धधर्मे सम्यग्यतितव्यं, विशिष्य च तत्परमसारभूते पौषधवते तत्सान्निध्यानुमोदनादौ च यतः- “कर्त्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्त्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥ १ ॥” स्पष्टं दृष्टं च सर्वैर्देवकुमारप्रेतकुमारयोः पोषधादिसान्निध्यासान्निध्यफलं निस्तुलं, एवं धर्मदेशनया प्रतिबुद्धः प्राकृतधर्मसान्निध्यवशात्सञ्जातदृढश्रद्धः श्राद्धधर्मप्रतिपत्तावेकादशवतीं प्रतिपद्यते स्म देवकुमारः क्ष्मापः, तादृकखपुत्रप्रसादेन नृत्वेऽपि सर्वार्थसिद्धं मन्याः प्रज्ञाकरादयश्च पर्वसु सर्वदा प्रतिपूर्णपौषधाराधनं न्यक्षकर्मक्षयसाधनं, धन्यश्रेष्ठी तु सश्रेष्टिनीकस्तादृक्पुत्र प्रदत्तामुद्रदारिद्र्यादिदुः खगर्भवैराग्यात्तदैव परिव्रज्य क्रमात्प्राज्यशिवसाम्राज्यभागभूत्, अन्येऽपि यथाशक्ति धर्मे तत्सान्निध्यादौ च प्रययन्ते स्म व्यन्तर्यपि प्राप्तसम्यक् सम्यक्त्वा सम्यग्दृशां | सान्निध्य विधिसावधानाऽभवत्, धन्यतनूजस्तु तादृग्दु : खदग्धोऽपि बहु विदग्धोऽपि प्राग धर्मान्तरायकरणात् | सम्यग्धर्मे विशिष्य च पौषधग्रहणादौ सर्वथैव नोत्सेहे, प्राग्भवसम्बन्धाद्बन्धवादिभिर्भृशमुत्साहितोऽपि प्रत्युतोष्ट्र इव द्राक्षावणे विद्वेषमादधे पौषधे श्राद्धकुलोत्पन्नोऽपि, अहह ! जीवस्य तादृक्समग्र सामग्र्यामपि धर्मदुष्प्रापत्वं, क वा वर्षासु वसन्तेऽपि वा करीरे पत्रोद्गमः ?, तदुक्तम् - " पत्ते वसंतमासे रिद्धिं पावंति सयलवणराई । जं
Jain Educationtional
For Private & Personal Use Only
२९ गाथा
यां पोषधे
इभ्यद्वयज्ञातं
॥१७१॥
v.jainelibrary.org