SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ नात् । इहोद्याने व्रतस्यातिचारे हीनसुपर्वता ॥ १५ ॥ जज्ञे प्रज्ञाकरेभ्यस्य, सुतस्तु सुमतिम॒तः । धन्यस्यान्यश्च । |नि वश्रावकत्वेऽप्यदः फलम् ॥ १६॥ प्राक प्रीतिप्रतिबन्धेन, प्रज्ञाकरसुतस्तयोः । व्यन्तर्या जात एवोचैः ।। प्रतिष्ठार्थमधिष्ठितः॥ १७॥ निधि सैवार्पिपत्पिने, तस्य जन्ममहादि च । अचीकरत्तवाप्युच्चैश्चमत्कारमदीदृशत् ॥ १८॥ विडम्बयितुमत्यन्तं, प्राग्विद्वेषविशेषतः। धन्यात्मजोऽप्यध्यष्ठायि, न्यष्ठापि च तया धनम् ॥ १९॥ द्विष्टया च तया निन्ये, स शिशुस्तादृशी दशाम् । विद्विषा खलु विद्वेष्यः, सर्वथाऽपि कदर्थ्यते ॥२०॥ ताहक खरूपं भो भूप!, किञ्चित्पादर्शि तेऽपि च । चित्रकृद्धर्मसान्निध्यासान्निध्योत्थमहो! फलम् ॥ २१॥ एवं द्वादश वर्षाणि, दर्शयिष्यत्यसौ द्वयोः। प्रीत्यप्रीतिफलं दिव्यतोषरोषौ हि नाल्पको ॥ २२॥ इत्याकर्ण्य गुरूद्गीर्णमुकर्ण क्षोणिपादयः। सर्वे बभूवुः सद्धर्मसान्निध्यैकाग्रबुद्धयः ॥ २३ ॥ प्रज्ञाकरेभ्यधन्याभ्यां, विज्ञप्तोऽत्रान्तरेगुरुः। आवयोः प्राग्भवं चित्रविपाकं ब्रूहि सोऽप्यवक् ॥२४॥ प्राग्बान्धवौ धर्मदासधर्मदत्तौ पराईतौ । जातोद्वाही वधूवाक्यादार्थ चक्रतुः कलिम् ॥ २५॥ यतः-"आक्षीरधारकभुजामागभैकनिवासिनाम् । नमोऽर्थेभ्यः पृथक्त्वं ये, भ्रातृणामपि कुर्वते ॥ २६॥" कथञ्चिच्च विभक्तार्थों, जातौ तौ सर्वथा पृथग् । कलहे सति निर्वाहो, महतामपि नान्यथा ॥२७॥ मिथस्तथाऽपि तौ गुप्तवित्तग्रहणशकिनौ । द्वेषं तत्यजतुर्नान्तरविश्वासे शमः कुतः ॥ २८ ॥ आद्यस्याये प्रियागर्भे, सप्रियोऽन्यो महामहम् । दृष्ट्वा द्विष्टः सुतैवास्याऽसौ भूयादिति दध्यकौ ॥ २९॥ क्रमाजातः सुतस्तस्य, महीयांस्तन्महोऽप्यभूत् । स त्वबन्नात्सप्तगर्भेष्वेवं दुष्कर्म दुर्मतिः॥३०॥ Jan Education na For Private & Personal Use Only (OIRainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy