SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ नप्रतितविकटकटिः प्रकटितविश्वविस्मयः समयमुशिपर्षयाजगाम न तु प्रणनाम, तथाऽपि क्षमापतिरक्षामसबहुमानवचनं हे कुमारेन्द्र ! कचित्कुशलिनो यूयं इत्यादि याववादीत् तावत्पृथुकोऽप्यवादीदैत्यरूपानुवादीरे नरेश ! मामिन्द्रतया बहु मानयसि न जानासि महिक्रमं श्रेष्टिगृहवत् त्वद्गृहमपि भस्मीकरिष्याम्यक्रममित्युक्तिसमकमेव समुत्थितः कुतोऽपि धूमकेतुर्भूभर्तुभवने २ हहा! भ्रान्तोऽहं २ प्रसीद २ इत्यादिनृपोत्योपशान्तश्च तदैव तत्क्रोधाग्निना सार्द्ध, ततः प्रेतकुमारः कोऽप्ययं नतु श्रेष्ठिकुमार इत्यादि विब्रुवन्ति स्म भयभाज: सामाजिकाः, प्रमुदितश्चातितमां तद्वचसा सशिशुः, उदितवांश्च नृपादिसमुदितजनताःप्रति-हंहो! अहं प्रेतकुमार एव नाना धानाऽपि मम च महामुनेरिव निन्दयवानन्दः न तु सत्ययाऽपि स्तुत्येति, ततोऽति विस्मयाद्वैतभृत्क्षमाभृढभाषे-रेरे कुमारापशद ! किमदः सदस्यादिप्रमदभिदुरं त्रिजगद्भयङ्करं ते चरितं?, सोऽप्युवाददेव ! केवल्येव देवकुमारखरूपवत् प्रेतकुमारखरूपमपि प्ररूपयिष्यति किं नाम मम पार्थे पृच्छया ?, न हि खगुणोत्कीतनं महात्मानः खयं कुर्वन्ति, यत:-"न स्वयं ख्यापितगुणो, गुणवानिति कथ्यते । खयं संवाहितानां हि, गात्राणां निवृतिः कुतः ॥१” इतश्च वापयांबभूव भूविभुं केवल्यागमनविज्ञपनेन सद्योऽप्युद्यानपालकः, ततोऽतिमुदितात्मा क्षमारमणः प्रज्ञाकरधन्यादिव्यवहारिगणश्च विधिना गत्वा नत्वा श्रुत्वा च तदुपदिष्टं सुकृतैदम्पर्य पर्यन्वयुङ्कयुक्तिवित्केवलिनं कुमारद्वयवृत्तं, सोऽप्यभिधे-वसुधेश्वर ! प्राकृतकर्मणा न किमप्यसम्भाव्यं, यत:-"यन्मनोरथशतैरगोचरो, यत्स्पृशन्ति न गिरः कवेरपि । खप्रवृत्तिरपि यत्र दुर्लभा, हेलयैव श्रा.प्र.सू.२९ Educati onal For Private Personal Use Only O w .jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy