SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ इव प्रविशति ?, तत्प्रयातु सम्प्रति भवान्निजपदं आदधातु च खहृदि मुदं, उत्तिष्ठन्तु द्रुतमेवैते मया विद्रावितवि-12 पत्तयस्तव पत्तयः, भवन्तु भवदादीनामपि कियदिनान्याधिपत्यादिसुखसम्पत्तयः, अवसरे पुनर्यथोचितं चिन्त-12 |यिष्यामः, अस्मत्स्वरूपं च परिज्ञास्यसि स्वयं स्वल्पसमयादेव केवलिमुखात्, एवं बालवाक्यसमकालमुत्थितः | पुनर्नवजीवितैस्तैः खनरैः सह सहर्षविस्मयोत्कर्षमुर्वीशः स्वावासमध्यमध्यासामास, अथ च तत्रैव नगरे नगरेशमान्यस्य धन्यावल्लभस्य धन्यमहेभ्यस्य सप्तभ्यः पुत्रीभ्योऽनन्तरमजनिष्ट गरिष्ठमनोरथैरेकः पुत्रः, यावता च तत्पिता प्रमुदितात्मा तजन्मोत्सवमतुच्छं किञ्चित्कारयति तावतैव दुर्दैवहतः स सुतः पित्रादीन् प्रत्यवादीत्-रेरे निविडजडिमानः! कोऽयं मजन्मजन्मा मुधैव वः प्रमदविधिनिरुपमानः, अहं हि चिरसञ्चितभवद्वित्तस्मेरकसेरुकन्दनिकन्दनार्थ वराह इवावतीर्णोऽस्मि पश्यत २ सम्प्रत्येव मत्कृतमिति तदुक्तिसमकालमेव विकरालस्तद्गृहान्तः प्रजज्वाल महाज्वलनः, प्रज्वलितं च तद्गृहबहुसारं उत्पिञ्जलीभूतं च यावत्पित्रादिभि|स्तावत्तेनैव शावेनोत्थाय मात्रिकेणेव तोयच्छटया झटित्येव वहिर्विध्यापयामाहे प्ररूपयामाहे चातिविस्मितभीतान् पित्रादीन् प्रति-हं हो महेश इव सृष्टिसंहारक्षमोऽहं अत इव विश्वेऽपि निस्समोऽहं तस्मान्मतिमोहं विहाय मदुक्तमेव कुरुध्वं, मजन्मभहनाम्नैवैतावान् कोपः कोपफलं च किञ्चिन्मया दर्शयामाहे, यद्भारविः-11 "अवन्ध्यकोपस्य निहन्तुरापदां, भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना, न जातहाकार्दन न विद्विषा दरः॥१॥” तन्मा मन्निमित्तमतो महामोहहर्षभक्तिप्रशंसादि किमपि कार्ट, यदि खल्प Jain Educati o nal For Private & Personal use only w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy