________________
ति०सूत्रम्
श्राद्धम- भवता, नवरं नरनायकः किश्चिचमत्कृतिदर्शनं विना न मां बहुमन्ता, यदद्यापि भवानिव नागमदस्मद्वे- २९गाथा
इमास्माकमनुनयाय, यदि च लोभाकान्तेन भूकान्तेनास्माभिरपि सार्द्धमियत्कृतं तदा किञ्चिद्वयमपि प्रतिचि- यां पोषधे
कीर्षामः, यत:-"पादाहतं यदुत्थाय, मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि, देहिनस्तद्वरं रजः ॥१॥ विप-10 इभ्यद्वय॥१६७॥
दोऽभिभवन्त्यविक्रम, रहयत्यापदुपेतमायतिः। नियता लघुता निरायतेरगरीयान् न पदं नृपश्रियः ॥२॥" ज्ञातं तदहो महोत्साह ! गत्वा निवेदय नरेन्द्राय सपदि मद्गदितमिदं यत्पृथिवीपतेः पृथुमनोरथः पृथुकोऽयं त्वामिदमादिशति-राजन् ! राज्यमेव समग्रं त्वामहं याचे महाऽपराधवन्तं नान्यथा सर्वथा मुञ्चे, तत्स्वयं बुद्धा मया सार्द्ध युद्धा वा द्रुतमेव देहि मह्यं राज्यं यथा स्यात्तवापि सुखासिकासुखं प्राज्यं इति कुमारप्रति
पादितं मत्रिपतिना झटिति गत्वा निवेदितं नरेन्द्रस्य अनुमतं च तेनाप्यनन्यगतिकतया निस्तुषधीसखधिया &च यथोचितं, यतः-“स किंसखा साधु न शास्ति योऽधिपं ?, हितान्न यः संशृणुते स किंप्रभुः । सदाऽनुकूले|विह कुर्वते रति, नृपेष्वमात्येषु च सर्वसम्पदः॥१॥” ततः ससचिवः क्षमाधवस्तदैव देवतमिव तं स्तनन्धयं स्वयं ससम्भ्रममभ्यागत्य सत्यप्रतिपत्तिः पत्तितामिव खीकुर्वन्नुवाच वाचमुच्चैः-अहो कुमारराज! राज्यमिदं मदीयं त्वदायत्तमेव यथारुचि सम्प्रत्येव स्वीकुरुष्व, कुरुष्व परं मदादीनामुपरि तोषं, स्फुटीकुरुष्व च खस्व
॥१६७॥ रूपं विहितविस्मयाद्वैतपोषम् इति नृपतिविज्ञप्सितृप्ताशयः स उत्तानशयः प्रत्युत्तरयति स्म स्मितस्मेरास्यकुशेशयः-क्षितिपते! सृतं नः सम्प्रति राज्येन, को हि नाम शिशुमात्रः सन्नमात्रराज्यचिन्ताभारे पारावारे
Jain Education
anal
For Private & Personel Use Only
(Grjainelibrary.org